________________
कल्प.
॥ १४४॥
00000000 0000000000000000000000000000000000000000000
चउगमणपवडमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभंतनिम्मलुक्कडउम्मीसहसंबंध पुनः किंवि० ( चउग्गमणपवद्धमाणजलसंचयं ) चतुर्पु गमनेषु दिग्मार्गेषु प्रकर्षण वर्धमानो जलसञ्चयो जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः, पुनः किंवि० (चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं) चपलचञ्चला चपलेभ्योऽपि चपला अतिचपला इति यावत् , तथा उच्चं आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैर्लोलत्पुनःपुनरेकीभूय पृथग्भवत् एवंविधं तोयं पानीयं यस्य स तथा तं, पुनः किंवि० (पडुपवणाय) पटुना अमन्देन पवनेन आहता आस्फोटिताः सन्तः, अत एव (चलिअ) चलिता धावितुं प्रवृत्ताः, तत एव (चवल) चपलाः (पागड ) प्रकटाः (तरंग ) एवंविधास्तरङ्गाः कल्लोलास्तथा (रंगंतभंग) रङ्गत इतस्ततो नृत्यन्त एवंविधा कल्लोलाविशेषाः, तथा (खोखुब्भमाण) अतिक्षुभ्यन्तः, भयभ्रान्ता इव भ्रमन्तः (सोभंत) शोभमानाः (निम्मल) निर्मलाः स्वच्छाः ( उक्कड) उत्कटाः उद्धताः | ( उम्मी ) ऊर्मयो विच्छित्तिमन्तः कल्लोलाः, ततः एतैः सर्वैः पूर्वोक्तैः कल्लोलप्रकारैः ( सहसंबंध ) सह यः
700000000000000000000000000000000000000000000000000
॥१४४॥
in Educalan Intera
For Private & Personal Use Only
www.jainelibrary.org