SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ॥१४॥ ००००००००००००००००००००००००००००००००००००००००००००००000001 तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीओरुसप्पमाणसिरि (तओ पुणो ) ततः पुनः सा त्रिशला दशमे स्वप्ने पद्मसरः पश्यति, अथ किंविशिष्टं पद्मसरः ( रविकिरणतरुणबोहिअ )प्राकृतत्वाद्विशेषणस्य परनिपातात् तरुणो नूतनो यो रविस्तस्य ये किरणास्तैर्बोधितानि (सहस्सपत्त) सहस्रपत्राणि महापद्मानि तैः ( सुरभितर ) अत्यन्तं सुगन्धि (पिंजरजलं ) पीतरक्तं च जलं यस्य तत्तथा, पुन किंवि० ( जलचरपहकर ) जलचरा जलजीवास्तेषां समूहस्तेन ( परिहन्थग ) परिपूर्ण सर्वतो व्याप्तं इत्यर्थः, तथा ( मच्छपरिभज्जमाणजलसंचयं) मत्स्यैः परिभुज्यमानो व्याप्रियमाणो जलसञ्चयो यस्य तत्तथा, ततः कर्मधारयः, पुनः किंवि० ( महंत ) महत्, पुन: किंवि० (जलंतमिव ) ज्वलदिव देदीप्यमानं इव, केन (कमल) कमलानि सूर्यविकाशीनि अम्बुजानि ( कुवलय) कुवलयानि च चन्द्रविकाशीनि कमलानि (उप्पल) उत्पलानि रक्तकमलानि (तामरस) तामरसानि महापद्मानि (पुंडरीय) पुंडरीकानि, उज्ज्वलकमलानि, एतेषां जातीयकमलानां (उरु) उरुविस्तीर्णः (सप्पमाण) सर्पन प्रसरन् एवंविधो यः (सिरिसमुदएणं) श्रीसमुदयः 1000000000000000000000000000000000000000०००००००००००० ||१४१॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy