________________
कल्प.
| सुबो.
||१३९॥
000000000000000000000000000000000000000000000000001
..-..---
तओ पुणो जच्चकंचणुज्जलतरूवं निम्मलजलपुन्नमुत्तमं दिप्पमाणसोहं कमलकलावपरिरायमाणं पडिपुन्नं सव्वमंगलभेयसमागमं पवररयणपरिरायंतकमलट्ठियं
(तओ पुणो) ततः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलशं (जच्चकंचणुज्जलंतरूवं) जात्यकाञ्चनवत् उत्तमसुवर्णवत् उत्प्राबल्येन दीप्यमानं रूपं यस्य स तथा तं, यथा किल जात्यकाञ्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पनः किं वि. (निम्मलजलपुन्नमुत्तमं) निर्मलेन जलेन पूर्ण, अत एव उत्तमं शुभसूचकं, पनः किं वि० (दिप्पमाणसोहं) दीप्यमाना शोभा यस्य स तथा तं, पुन: किंवि० (कमलकलावपरिरायमाणं) कमलकलापेन कमलसमूहेन परिराजमानं सर्वतः शोभमानं, पुनः किंवि० (पडिपुन्न) प्रतिपूर्णा न तु न्यूना एवंविधा ये ( सब्वमंगलभेअ) सर्वमङ्गलभेदा मङ्गल| प्रकारास्तेषां (समागम) समागमः सङ्केतस्थानामव, यथा सङ्केतकारिणो जनाः सङ्केतस्थाने अवश्यं प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुनः किंवि० (पवररयणपरिरायंतकमलट्ठिअं) प्रवररत्नैः परिराजमानं यत् कमलं तत्र स्थितं, रत्नमयविकसितकमलोपरि स कलशो मुक्तोऽस्तीति भावः, पुनः किंवि०
000000000000000000000000000000000000000000000000000
||१३९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org