________________
कल्प ०
||१३८ ||
Jain Education Inte
9000000
मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चैव ववसिएणं पिच्छड़ सिवमउयमारुयलयाहयकंपमाणं अइप्पमाणं जणपिच्छणिज्जरुवं ॥ ८ ॥ ४० ॥ ध्वजशिरास आलेखितेनेत्यर्थः (सीहेण ) सिंहेन, इति विशेष्यं पुनः कीदृशेन सिंहेन ( रायमाणेण ) राजमानेन, सुन्दरत्वात् शोभमानेनेत्यर्थः ( रायमाणं ) राजमानं इति तु योजितं पुनः कीदृशेन सिंहेन ( भित्तुं ) भेत्तुं द्विधाकर्तुं किं ( गगणतलमंडलं ) आकाशतलमण्डलं, (चैत्र) उत्प्रेक्षायां ( वयसिएणं ) सोद्यमेनेव, अयमर्थः - ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि गगनं प्रति उच्छलति, तथा उत्प्रेक्षते, अयं सिंहः किं गगनतलं भेतुं उद्यमं करोतीति ( पिच्छइ ) प्रेक्षते इति क्रियापदं अथ पुनः किं विशिष्टं ध्वजं (सिव ) शिवः सौम्यः सुखकारी, अतएव ( मउअ ) मृदुको मन्दमन्द इति यावत् एवंविध यो ( मारुअ ) मारुतो वायुस्तस्य ( लय ) लयः आश्लेषो मिलनमिति यावत् तेन ( आय ) आहत आन्दोलितो यः तत एव (कंपमाणं ) चलनस्वभावो यः स तथा तं पुनः किंवि० (अइप्पमाणं) अतिप्रमाणं, महान्तं इत्यर्थः पुनः किंवि० ( जणपिच्छणिज्जवं जनानां प्रेक्षणीयं द्रष्टुं योग्यं रूपं स्वरूपं यस्य स तथा तं || ८ ||३०||
For Private & Personal Use Only
सुबो•
| ॥१३८॥
૧૫ w.jainelibrary.org