________________
कल्प०
॥१३७॥
॥ तओ पुणो जच्चकणगल द्विपइट्ठिअं समृहनीलरत्तपीयसु किल्लसुकुमालुल्लसियमोर पिच्छकयमुद्धयं यं अहियसस्सिरी फालिअसंखंककुंददगरयरययकलसपंडुरेणं
( तओ पुणो ) ततः सा त्रिशला पुनः अष्टमे स्वप्ने ध्वजं पश्यति, किं विशिष्टं ध्वजं ( जच्चकणगलट्ठिपइट्ठिअं) जात्यं उत्तमजातीयं यत् कनकं सुवर्ण तस्य या यष्टिस्तत्र प्रतिष्ठितं सुवर्णमयदण्डशिखरे स्थितं इत्यर्थः, पुनः किंवि० ( समूहनीलरत्तपी असुकिल ) समूहीभूतानि बहूनीत्यर्थः, नीलरक्तपीत शुक्लवर्णमनोहराणी त्यर्थः ( सुकुमालुल्लासिअ ) सुकुमालानि उद्धसन्ति, वातेन लहलहायमानानि इत्यर्थः, एवंविधानि यानि ( मोरपिच्छकयमुद्धयं ) मयूरपिच्छानि तैः कृता मूर्धजा इव केशा इव स तथा तं, अयमर्थः - यथा मनुष्यशि रसि वेणिर्भवति तथा तस्य; पुनः किंवि० (अहिअसस्सिरीअं) अधिकसश्रीकं अतिशोभितं इत्यर्थः पुनः किंवि० एवं - विधेन सिंहेन राजमानं इति विशेषणयोजना, अथ कीदृशेन सिंहेन ( फालिअसंखंक) स्फटिकं रत्नविशेषः, शङ्खः प्रसिद्धः अङ्कोऽपि रत्नविशेष: ( कुंददगरय) कुन्दस्य धवलपुष्पविशेषस्य माल्यं, दकरजांसि जलकणाः ( रययकलस ) रजतकलशो रूप्यघटः ( पडुरेण ) उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन ( मत्थयत्थेण ) मस्तक स्थितेन, चित्रतया
Jain Education International
For Private & Personal Use Only
000000000
सुबो०
॥१३७॥
www.jainelibrary.org