SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ कल्प. 100000000000०००००००००००००००००००००००००००००००००००००००० हिमपडलगलग्गहं गहगणोरुनायगं रत्तिविणासं उदयस्थमणेसु मुहुत्तं सुहदसणं दुन्निरिक्खरूवं रत्तिमुद्धंतदुप्पयारपमदणं सीअवेगमहणं पिच्छइ मेरुगिरिसययपरिअयं विसालं किंवि० ( हिमपडलगलग्गहं ) हिमपटलस्य हिमसमूहस्य गलग्रहं गलहस्तदायकं, हिमस्फोटकमित्यर्थः, पुनः किंवि० (गहगणोरुनायगं) ग्रहगणस्य ग्रहसमूहस्य उरुर्महान् नायको यः स तथा तं, पुनः किंवि० (रत्तिविणासं) रात्रिविनाशं, रात्रिविनाशकारणं इत्यर्थः, पुनः किंवि० ( उदयत्थमणेसु मुहुत्तं सुहदसणं ) उदयास्तसमययोः उदयवेलायां अस्तवेलायाञ्च महतं यावत् सखदर्शनं सखेन अवलोकनीयं इत्यर्थः (दुन्निरिक्खरूवं) अन्यस्मिन् काले दुर्निरीक्ष्यरूपं सम्मुखं विलोकयितुं न शक्यते इत्यर्थः ॥ पुनः किं वि. (रत्तिमुद्धत) रात्री उद्धताः | स्वेच्छाचारिणः, मकारोऽत्र प्राकृतत्वात् , एवंविधा ये (दुप्पयारप्पमदणं) दुःप्रचाराश्चौरादयोऽन्यायकारिणस्तान् प्रमईयति यस्तं, अन्यायकारिप्रचारनिवारकं इत्यर्थः, पुनः किं वि. (सीअवेगमहणं) शीतवेगमथनं, आतपेन | शीतवेगनिवारणात् (पिच्छइ) प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किं वि. ( मेरुगिरिसययपरिअट्टयं ) मेरुगिरेः सततं परिवर्तकं, मेरे आश्रित्य प्रदक्षिणया भ्रमन्तं इति यावत् , पुनः किं वि० (विसालं) विशालं - --- 1000000000000000000000000000000000000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy