________________
कल्प.
11१३४॥
000000000000000000000000000000000000000000000000000
तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंजद्ध
|| सुबो. रागसरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं ।
(तओ पुणो ) ततः पुनः चन्द्रदर्शनान्तरं सप्तमे स्वप्ने सूर्य पश्यति, अथ किं विशिष्टं सूर्य ( तमपडलप| रिप्फुडं ) तमःपटलं अन्धकारसमूहस्तस्य परिस्फोटकं नाशकं इत्यर्थः (चेव ) निश्चयेन, पुनः किंवि० ( तेअसा पजलतरूवं ) तेजसैव प्रज्ज्वलत् जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यबिम्बवर्तिनो बादरपृथ्वीकायिकाः शीतला एव, किन्त्रातपनामकर्मोदयात्तेजसैव एते जनं व्याकुलीकुर्वन्तीति ज्ञेयं, पुनः किंवि० ( रत्तासोग) रक्ताशोकोऽशोकवृक्षविशेषः (पगासकिंसुअ) प्रकाशकिंशुकः पुष्पितपलाशः (सुअमुहगुंजड) शुकमुखं गुञ्जाधं च प्रतिद्धं (रागसरिसं) एतेषां वस्तूनां यो रागो रक्तत्वं तेन सदृशं, पूर्वोक्तवस्तुवत् रक्तवर्ण इत्यर्थः, पुनः किंवि० (कमलवणालंकरणं) कमलवनानां अलङ्करणं शोभाकारकं, विकाशकं इति यावत् , विकसितानि तानि अलङ्कृतानीव विभान्ति, पुनः किंवि० (अंकणं जोइसरस) ज्योतिषस्य ज्योतिश्चक्रस्य अङ्कनं, ॥१३.४॥ | मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुन: किंवि० (अंबरतलपईवं) अम्बरतले प्रदीप, आकाशतलप्रकाशकं, पुनः
000000000000000000000000000000000000000000000000000
Jain Educaton Inter
For Private & Personel Use Only
How.jainelibrary.org