________________
कल्प
सुबो.
4॥१३२॥
0000000000000000000000000000000000000000000000000000
कुमुअवणविवोहगं निसासोहगं सुपरिमट्ठदप्पणतलोवमं हंसपडुवन्नं जोइसमुहमंडगं तमरिपुं
मयणसरापूरगं समुद्ददगपूरगं-दुम्मणं जणंदइअवज्जिअं( कुमुअबणविबोहगं) कुमुदानां चन्द्रविकाशिकमलानां विबोधकं विकाशकं, यतः—दिनकरतापव्याप-प्रपन्नमूर्छानि कुमुदगहनानि ॥ उत्तस्थुरमृतदीधिति-कान्तिसुधासेकतस्त्वरितम् ।। १ ।। पुनः किंवि० (निसासोहगं) निशाशोभकं रात्रिशोभाकारकं, पुनः किंवि० (सुपरिमट्ठदप्पणतलोवमं ) सुपरिमृष्टं सम्यक्प्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं, पुनः किंवि० ( हंसपडुवन्नं ) हंसवत् पटुवर्ण उज्ज्वलवर्ण इत्यर्थः, पुनः किंवि० (जोइसमुहमंडगं) ज्योतिषां मुखमण्डकं, पुनः किंवि० (तमरिपुं) अन्धकारवैरिणं, पुनः किंवि० (मयणसरापूरगं) मदनस्य कामस्य शरापूरमिव तूणीरमिव, अयमर्थः यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशवं मृगादिकं शरैविध्यति, एवं मदनोऽपि चन्द्रोदयं प्राप्य निःशङ्को जनान् बाणैर्ध्या| कुलीकरोति, पुनः किंवि० (समुहदगपूरगं) समुद्रोदकपुरकं, जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि० ( दुम्मणं जणं इइअवजिअं ) दुर्मनरकं व्यग्रं ईदृशं दयितेन प्राणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः
9000000000000000000000000000000000000000000
॥१३२॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org