________________
कल्प०
॥१२॥
000000000000000000000000000000000000000000000000000
तस्य भवनस्य मध्यभागे सार्धशतयधनर्मिता रत्नमयी वेदिका, तदपरि चं श्रीदेवीयोग्या शय्या; अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आभरणभृतानि वलयाकारणि पूर्वोक्तमानादर्धमानोच्चत्वदर्घित्वपृथुत्वानि, अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु तदर्धार्धमानत्वं ज्ञेयं, इति प्रथमं वलयम् ॥ द्वितीयवलये वायव्येशानोत्तरस्यां दिक्ष चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां; पूर्वदिशि चत्वारि महत्तरा कमलानि; आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षदेवानां अष्टसहस्रकमलानि; दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दशसहस्रकमलानिः नैर्ऋत्यां किङ्करस्थानीयबाह्यपर्षदेवानां द्वादशसहस्रकमलानिः पश्चिमायां च हस्ति १ तुरङ्गम २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्य ७ रूपसप्तकटकनायकानां सप्त कमलानि, इति द्वितीयं वलयम् । ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्रकमलानि, इति तृतीयम् वलयं॥अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशत्रुक्षकमलानिः पञ्चमे वलये मव्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि; षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशक्षकमलानिः सर्वसंख्यया च मूलकमलेन सह एका कोटि १ विशतिर्लक्षाः २० पञ्चाशत् सहस्राः ५० शतमेकं १ विंशतिश्च २० कमलानामिति। अथ एवंविधं यत्कमललक्षणं
000000000000000000000000000000000000000000000000000
॥१२॥
Jain Education Interi
For Private & Personel Use Only
jainelibrary.org