________________
कल्प०
सबो.
॥११३॥
000000000000000000000000000000000000000000000000000
देवरायकुंजरवरप्पमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारुघोसं इभं सुभं
सव्वलक्षणकयंबिअं वरोरुं ॥३३॥ तओ पुणो धवलकमलप्पत्तपयराइरेग( देवरायकुंजरवरप्पमाणं) देवराजा देवेन्द्रस्तस्य कुञ्जरो हस्ती, तहत् वरं शास्त्रोक्तं प्रमाणं देहमानं यस्य स तथा तं, (पिच्छइ) प्रेक्षते, इदं क्रियापदं पश्यतीति 'इभं' इत्यनेन पूर्व योजितं, पुनः कीदृशं (सजलघणविपुलजलहरगज्जिअगंभीरचारुघोसं ) सजलो जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति, एवंविधो यो घनो निबिडो विपलजलधरो महामेघस्तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुर्मनोहरश्च घोषः शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः (इभं) गजं, इदं विशेष्यं, पुनः कीदृशं (सुभं) प्रशस्य, पनः कीदृशं (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्बं समूहस्तज्जातं यस्य स तथा तं, पुनः कीदृशं ( वरोरुं) वरः | प्रधान उरुर्विशालश्च, एवंविधं हस्तिवरं प्रथमे स्वप्ने त्रिशला पश्यतीति ॥ १ ॥ ३३ ॥
(तओ पणो) ततः पुनर्गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किं विशिष्टं वृषभं (धवलकमलपत्त) धवलानां उऽज्वलानां कमलानां यानि पत्राणि तेषां (पयर) प्रकरः समूहस्तस्मात् ( अइरेग )
0000000000000000000000000000000000000000000000000000
॥११३॥
Jain Education
!
For Private & Personal Use Only
Mainelibrary.org