________________
कल्प०
॥१३२॥
Jain Education I
0000000
चउदंतमूसिअगलिअविपुलजलहरहार निकरखीरसागरससंक किरणद्गरयरयय महा सेल पंडुरं समागयमहुयरसुगंधदाणवासिय कपोलमूलं
सिंहं ददर्शेति, अथ कीदृशं इमं पश्यति ( चउदंत) चत्वारो दन्ता यस्य स चतुर्दन्तस्तं क्वचित् ' तओअचउदंत' इति पाठस्तत्र ततैौजसा महाबलवन्तश्चत्वारो दन्ता यस्येति व्याख्येयं, पुनः कीदृशं (उसिअ ) उच्छ्रित उत्तुङ्गस्तथा ( गलिअविपुलजलहर ) गलितो वर्षणादनन्तरकालभावी, स हि दुग्धवर्णो भवति, एवंविधो यो विपुल जलधरो महामेघरतथा (हारनिकर) पुञ्जीकृतो मुक्ताहार : ( खीरसागर ) दुग्धसमुद्रः ( ससंककिरण ) चन्द्रकिरणा: ( दगरय) जलकणा: ( स्ययमहासेलपंडुरं ) रजतस्य रूप्यस्य महाशैलो महान् पर्वतो वैताढ्यः, तद्दत्पाण्डुरः, ततश्च उच्छ्रितश्चासौ पूर्वोक्तसर्ववस्तुवत्पाण्डुरथेति कर्मधारयः, पुनः कीदृशं ( समागय ) समागता गन्धलोभेन मिलिताः ( महुअर ) मधुकरा भ्रमरा यत्र तादृशं यत् (सुगंध ) विशिष्टगन्धाधिवासितं ( दाण ) मदवारि तेन ( वासिअ ) सुरभीकृतं ( क्वोलमूलं ) कपोलयोर्मूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितं अस्ति, तद्गन्धेन भ्रमरा अपि तत्र मिलिताः सन्तीति भावः, पुनः कीदृशं
For Private & Personal Use Only
सुबो०
|||११२ ॥
www.jainelibrary.org