SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥४२६॥ गतयोः चन्द्रसूर्ययोः तमसि विस्तृते भीता सती द्रुतं साध्वीनामुपाश्रये गता । स्थानाङ्गवृत्तौ तु सः साध्वीभिः आर्यचन्दनासमीपं गतेति । तदनु च तत्रेर्यापथिकीं प्रतिक्रम्य शयनस्थां प्रवर्त्तिनीं प्रणम्य 'क्षम्यतामयमपराध' इत्युक्तवतीं मृगावतीं प्रति चन्दनाऽपि चन्दनशीतलाभिर्वाणीभिः वदतिस्म भद्रे ! भद्रकुलोत्पन्ने ! तवेदृशं न युक्तम् । साऽप्यूचे 'मयका महदेतत्वातकं कृतं नेदं भूयः करिष्ये' इत्युक्त्वा पादयोः पतिता । तात्रता प्रवर्त्तिन्या निद्राऽगात् । तया च तथैव स्थितया शुभभावतः मन केवलज्ञानमाप्तं । सर्पव्यतिकरेण प्रबुद्धा सती - 'कथं सर्पोऽज्ञायि ?' इति प्रश्नेन केवलज्ञानमवगम्य मृगावतीं क्षमयन्ती चन्दनापि केवलज्ञानमापेति दृष्टान्तेन 'मिध्यादुष्कृतं ' देयम् ॥ ५९॥ ( वासावास प० निरगंधाण वा निग्गंधीण वा कप्पर तओ उवस्सया गिव्हित्तए । तं० वेउब्विआ, पडिलेहा, साइज्जिया पमज्जणा ) ॥ ६० ॥ ['वासावास' इत्यादित: 'पमजणे 'ति यावत् ] तत्र - वर्षासु उपाश्रयाः त्रयो ग्राह्याः । संसक्तजलप्लावनादिदोषभयाद् । 'तं' इतिपदं तत्रायें सम्भाव्यते 'वेडन्विआ' क्वाऽपि 'वेउद्दिअ'ति उभयत्रापि पुनः पुनरित्यर्थः 'साइजिआ मज्जण' ति आ 'साइज्ज धातुरास्वादने' वर्त्तते । तत्र - उपभुज्यमानो य उपाश्रयः स च 'कडेमाणे कडे' इतिन्यायात् 'साइज्जिओ' त्ति भण्यते । तत्सम्बन्धिनी प्रमार्जनाऽपि 'साइज्जिआ' अयं भावः - यस्मिन्नुपाचये स्थिताः साधवस्तु - प्रातः प्रमार्जयन्ति १, पुनर्भिक्षागतेषु साधुषु २, पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते ३, चेति वास्त्रयं प्रमार्जयन्ति वर्षासु । ऋतुबद्धे तु द्विः । यतु सन्देहविषौषध्यां - वारवतुष्टयप्रमार्जनमुकं । तदयुकं । चूर्णी - वारत्रयस्यैवोक्तत्वात् । अयं च विधिः Jain Education International For Private & Personal Use Only किरणावली टीका व्या० ९ ॥४२६॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy