SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टीका व्या०९ ॥४१८॥ (वासावासं प० नो कप्पइ निग्गंधाण वा निग्गंथीण वा अणभिग्गहिअसिज्जासणिएणं (याणं) हुत्तए । आयाणमेयं । अणभिग्गहिअसिज्जासणियस्स अणुच्चाकूइअस्स अणटाबंधियस्स अमिआसणिअस्स अणाताविअस्स असमिअस्स अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमज्जणासीलस्स तहा तहा णं संजमे दुराराहए भवइ) ॥५३॥ [वासवासं' इत्यादिः 'संजमे दुराराहए भवई' ति यावत् ] तत्र-अनभिगृहीतशय्याऽऽसनक एव अनभिगृहीतशय्याऽऽसनिकः 'स्वार्थे इक:' तथाविधेन भवितुं न कल्पते-न युक्तं । वर्षासु यतिना मणिकुट्टिमेऽपि पीठफलकाभिग्रहवतैव भाव्यम् । अन्यथा शीतलायां भूमौ शयने कुन्थ्वादिप्राणविराधना अजीर्णादिदोषाश्च स्युः। आसने तु-कुन्थ्वादिसङ्घट्टनिषद्यामालिन्यात् कायवधादयः । 'आदाणमेयं' ति कर्मणां दोषाणां वा आदानम्-उपादानकारणम् । एतदनभिगृहीतशय्यासनिकत्वं । अथवा-अभिग्रहः-निश्चयः स्वपरिगृहीतमेव शय्यासनं मया भोक्तव्यं, नाऽन्यपरिगृहीतम् । आदानत्वमेव दृढयति'अणभिग्गहिअ' इत्यादि सुगमन् । अनुच्चाकुचिकस्य-'कुच परिस्पन्दे' अकुच्चा-अपरिस्पन्दा, निश्चला, यस्याः कम्बिका न चलति । अदृढबन्धने हि सङ्घर्षात् मत्कुणकुन्थ्वादिवधः स्यात् । 'उच्चा' हस्तादि यावत् येन पिपीलिकादिवधो न स्यात् सर्पादिर्वा न दशेत् , उच्चा बाऽऽसौ अकुचा च उच्चाकुचाकम्बादिमयी शय्या सा विद्यते यस्याऽसौ उच्चाकुचिकः, न उच्चाकुचिकोऽनुच्चाकुचिक:-नीचासपरिस्पन्दशय्याकः तस्य । 'अणट्ठाबंधियस्स' ति अनर्थवन्धिनः-पक्षमध्ये अनर्थकंनिष्प्रयोजनम् एकवारोपरि द्वौ त्रीश्चनुरो वा वारान कम्बासु बन्धान् ददाति चतुरुपरि बहुनि वा अडकानि बध्नाति । NERSARACTERIAL ॥४१८॥ For Privale & Personal use only brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy