SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ॥४१३॥ ૧૦૪ भूनिःसृततृणबिन्दुरूपो यो यत्राङ्कुरादौ दृश्यते, अष्टास्वपि 'से तं' ति तदेतत् ॥ ४४-४५ ॥ (वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहा० भ० पा० नि० प० । नो से कप्पड़ अणापुच्छित्ता आयरिअं वा उवज्झायं वा थेरं पविति गणि गणहरं गणावच्छेययं जं वा पुरओ काउं बिहरइ । कप्पड़ से आपुच्छिउं आयरियं वा० जं वा पुरओ काउं विहरइ । इच्छामि णं भंते ! तुन्भेहिं अन्भणुष्णाए समाणे गाहा० भ० पा०नि० प० । ते य से वियरिज्जा । एवं से कप्पइ गाहा० भ० पा०नि० प०। ते य से नो वियरिजा । एवं से नो कप्पड़ भ० पा०नि० प०। से किमाहु भंते ! आयरिया पञ्चवायं जाणंति) ॥ ४६ ॥ [ 'वासावासं' इत्यादितः 'आयरिया पञ्चवायं जाणंति' इति पर्यन्तम् ] तत्र - एतत्सूत्रम् एतत्सूत्रातिरिक्तानि च अनन्तरं वक्ष्यमाणानि त्रोणि सूत्राणि, यद्यपि ऋतुबद्ध-वर्षालक्षण कालद्वयसाधारणसामाचारीविपयाणि, तथापि वर्षा विशेषेणोच्यते- 'आयरिया पच्चचायं जाणंति' ति आचार्य:- सूत्रार्थदाता दिगाचार्यो वा उपाध्यायः - सूत्राऽध्यापकः, स्थविरः- ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च । प्रवर्तकः - ज्ञानादिषु प्रवर्त्तयिता, तत्र ज्ञाने- पठ ? गुणय ? शृणु ? उद्देशादीन् कुरु ? इति । दर्शने - दर्शनप्रभावकान् सम्मत्यादितर्कान् अभ्यस्य ? इति । चारित्रे - 'प्रायश्चित्तम् उद्रह ? इति । अनेषणीयं दुःप्रत्युपेक्षितादि च मा कृथाः ? यथाशक्ति द्वादशधा तपो विधेहि ? इत्यादि । गणि:-यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति, गणिनो वा अन्ये आचार्याः सूत्राद्यर्थमुपसम्पन्नाः । गणधरः- तीर्थकृत् शिष्यादि । गणावच्छेदका - यः साधून गृहीत्वा वहिः क्षेत्रे आस्ते गच्छाद्युपष्टम्भार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्त्ता सूत्रार्थोभयवित् Jain Educatinational For Private & Personal Use Only ॥ ४१३॥ elbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy