________________
%EGECE
॥३३७॥
पृच्छति-'के ते अष्टौ भवाः । श्रेयांस आह-यदा स्वामी ईशाने ललिताङ्गनामा देवः, तदानीमहं पूर्वभवे निर्नामिकानाम्नी स्वयंप्रभादेवी १। ततः-पूर्वविदेहे पुष्पकलावतीविनये लोहार्गलनगरे भगवान् वज्रजङ्गः, तदानीमई श्रीमती भार्या २। ततः--उत्तरकुरी भगवान् युगलिकः, अहं युगलिनी ३ । ततः-सौधर्मे द्वावपि मित्रदेवौ ४ । तत:भगवान् अपरविदेहे वैद्यपुत्रः, तदाहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं ५ । तत:-अच्युतकल्पे देवौ ६ । ततः-पुण्ड रिकिण्यां भगवान् वज्रनाभः, तदा सारथिः ७ तत:-सर्वार्थसिद्धविमाने देवौ ८ । इह पुन:-'भगवतः प्रपौत्र' इति । तेषां च स्वप्नानामिदं फलं-'यद् भगवतो भिक्षा दत्ता' इति । एवं च श्रुत्वा सर्वोऽपि जन:
'भुवनं जसेण भयवं रसेण भवणं धणेण पडिहत्थो । अप्पा निरुषमसुक्खे सुपत्तदाणं महग्यविमं ॥१॥ रिसहेससमं पत्तं निरवज्जइक्खुरससमं दाणं । सेअंससमो भावो हविज्ज जइ मग्गि हुज्जा' ॥२॥
इत्यादिवचोभिः अभिनन्ध स्वस्थानं गतः। श्रेयांसोऽपि यत्र स्थितो भगवान् प्रतिलाभितः तत्स्थानस्य-'पादैः आक्रमणं मा भवतु' इति भक्त्या रत्नपीठं कारयित्वा उभयसन्ध्यं पूजयति । विशेषतः प्रातःकाले पूजयित्वैव भुङ्क्ते । लोकोऽपि पृच्छति-'किमेतकं ?' श्रेयांस आह-'आदिकरमण्डलकं' । ततः लोकेनाऽपि-यत्र यत्र भगवान् स्थितः, तत्र तत्र पीठं कृतं । कालेन 'आदित्यपीठम्' इति सज्ञा जाता। एवं ऋपभस्वामिना संवत्सरेण इक्षुरसभिक्षा लब्धा, शेपैस्तु-त्रयोविंशत्या जिनैः द्वितीयदिवसे एव अमृतरसोपमा पायसभिक्षा इति ।
यतः-'संवच्छरेण भिक्खा लद्धा उसहेण लोगनाहेण । से सेहिं बीयदिवसे लद्धाओ पढमभिक्खाओ॥आव० नि०॥३१९॥
AAAAE
६. कि. २६
॥३३७॥
Jain Educa
t ional २
For Privale & Personal Use Only
Vi
b rary.org