________________
श्रीकल्प
किरणावली टीका व्या०७
॥३०६॥
अथ विरक्ता राजीमती पाह-'जह वि हु एअस्स करो, मज्झ करे नो अ आसि परिणयणे।
तह वि सिरे मह सुच्चि, दिक्खासमए करो होही' ॥३०॥ अथ नेमिनं प्रति सपरिकरः समुद्रविजयो यथा'नाभेयाद्याः कृतोद्वाहा, मुक्ति जग्मुर्जिनेश्वराः । ततोऽप्युच्चैःपदं ते स्यात्, कुमार ! ब्रह्मचारिणः ॥३१॥ नेमिराह-'हे तात ! क्षीणभोगकर्माहमस्मि । किंच-'एकत्रीसङ्गहेऽनन्त-जन्तुसङ्घातघातके । भवतां भवतान्तेऽस्मिन्, विवाहे कोऽयमात्रहः ॥३२॥ अत्र कवेर्घटना-'मन्येऽङ्गनाविरक्तः परिणयनमिषेण नेमिरागत्य । राजीमतीं पूर्वभव-प्रेम्णा समकेतयन् मुक्त्यै ॥३३॥
(अरहा अरिहनेमी दक्खे जाव तिनि वाससयाई कुमारे अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहिं जीयकप्पिएहिं देवेहिं तं चेव सव्वं भाणियन्वं, जाव दाण दाइयाण परिभाइत्ता) < अर्हन अरिष्टनेमिः दक्षः यावत् त्रीणि वर्षशतानि कुमारः गृहवासमध्ये स्थित्वा पुनरपि > । अत्रान्तरे-लोकान्तिकाः जितकल्पिताः देवाः
'जय निर्जितकन्दर्प ! जन्तु जाताऽभयप्रद !। नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्तय ॥३४॥
इति स्वामिन प्रोच्य-स्वामी वार्षिकदानाऽनन्तरं त्रिभुवनमानन्दयिष्यति'इति समुद्रविजयादीन् प्रोत्साहयन्ति। ततः-सर्वेऽपि सन्तुष्टा इति । <तदेव सर्व भाणयितव्यं यावद् दानं दायिकेभ्यः परिभाज्य > । 'दानविधिस्तु वीरवद्' इति ज्ञेयम् ।।१७२॥
['जे से वासाणं' इत्यादितः 'पब्वइए' त्ति पर्यन्तं मुकरम् ]
॥३०६॥
Haidernational
For Private & Personal use only
brary.org