________________
॥२९९॥
अनुमन्यस्व पाणिग्रहणं पूरय च अस्मन्मनोरथं ? । स्वामी तु-'योग्यां कन्यां विलोक्य करिष्ये अहं पाणिग्रहणम्' इति प्रत्युदतरत् । तत:-पुनरपि एकदा कौतुकरहितोऽपि भगवान् अनेकराजपुत्रमित्रपरिकरितः कृष्णाऽऽयुधशालायाम् उपागमत् । तत्र कौतुकोत्सुकैः मित्रैः विज्ञप्तः-अङ्गुल्यग्रे कुलालचक्रवच्चक्रम् अभ्रामयद् , अनामयच्च सारङ्ग धनु: मृणालवत् , कौमोदकी गदां च यष्टिवद् उत्पाटय निजभुजतरौ शाखाश्रियं प्रापयद् , अपूरयच्च कमलवदादाय शङ्खम् । तच्छब्देन शब्दाऽद्वैतं जगदभवद् बधिर इव सर्वोऽपि लोकः । गजाश्चादयश्च उन्मूल्य स्तम्भादीन् उद्बन्धनाः तत्रसुः। कृष्णस्तु-'उत्पन्नः कोऽपि सपत्नो राज्यलिप्सुः' इतिचिन्तया त्वरितम् आयुधशालायामागात् । दृष्ट्वा च नेमि चकितो निजबलतुलनाय नेमि प्रति हरिराह
'आवाभ्यां वीक्ष्यते नेमे ! स्वबलं हरिरित्यबक् । ततो नेमि -हरी मल्ला-ऽक्षाटके जग्मतुतम् ॥१॥ श्रीनेमिराह-अनुचितं ननु भूलुठनादिकं, सपदि बान्धव ! युद्धमिहावयोः ।
बलपरीक्षणकद्भुजनामनं, भवतु नाऽन्यरणः खलु युज्यते ॥२॥ द्वाभ्यां तथैव स्वीकृत्य प्रथमं हरिः निजबाहुं प्रसारितवान् , बालितवाँश्च नेमिः कमलनालवत् । तदबाहुं निजबाहुलग्नं च कोपात्ताम्रवदनं जनार्दन शाखावलम्बिकपिमिवान्दोलितवान् । ततः-विषण्णः कृष्णः 'मम राज्यमेषः सुखेन ग्रहीष्यति' इति चिन्तातुरः स्वचिते चिन्तयामास ।
'क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्रुते । ममन्थ शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः ॥१॥ ततः-बलभद्रेण सहाऽऽलोचयति-किं विधास्यावः? नेमिस्तु राज्यलिप्सुः बलवाँश्च । ततः-आकाशवाणी प्रादुरभूद
ASAASARAAAABA
मा॥२९९
Jain Educat
i onal
For Private & Personal use only
wwwmalitary.org