________________
।२४१।
क. कि. १८
૧
रविहारात् । (सारयसलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः - कालुष्याsकलङ्कितत्वात् । (पुत्रखरपत्तं व निरुवलेवे) पुष्करं - पद्मं तस्य पत्रमित्र निरुपलेपः- पङ्कजलकल्प स्वजन विषयस्नेहरहितत्वात् । (कुम्सो इव गुतिं दिए ) कूर्म :कच्छपः स इव गुप्तेन्द्रियः । स हि कदाचिद्ग्रीवाचरणचतुष्टयरूपाऽङ्गपञ्चकेन गुप्तो भवेद् एवं भगवानपि इन्द्रियपञ्चकेन । (खग्गविसाणं व एगजाए) खड्गः - गण्डकाऽऽख्यो जीवविशेषः तस्य विषाणं शृङ्गम् एकमेव स्यात्तद्वदेको जातः- एकभूतो रागादिसहायासहितत्वात् । (विहग इव विप्यमुक्के) विहग इव विप्रमुक्तः - मुक्तपरिकरत्वाद् अनियतवासाच्च । ( भारंडपक्खी इव अप्पमत्ते) भारण्डपक्षीव अप्रमत्तः - निद्राद्यभावात् । भारण्डपक्षिणोः किलैकं कलेवरं पृथग्ग्रीवं त्रिपादं च स्यात् । यदुक्तं – 'भारण्डपक्षिणः ख्याताः त्रिपदा मयेभाषिणः । द्विजिह्वा द्विमुखा को - दराऽभिन्न फलैषिणः ।। 11
चाऽत्यन्तमप्रमत्तत्तयैव निर्वाहं लभेते । अतस्तदुपमा । (कुंजरो इव सोंडीरे) कुञ्जर इव शोण्डीर :- कर्मशत्रुसैन्यं प्रति शुरः । (सभो इव जायथामे) वृषभ इत्र जातस्थामा - स्त्रीकृतमहाव्रत भारवहनं प्रति जातबल: - निर्वाहकत्वात् । सीहो इव दुरिसे) सिंह इव दुर्देषः - परिषहादिमृगैः अनभिभवनीयत्वात् । (मंद इव अप्पर्कपे) मेरुरिव अनुकूलप्रतिकूलोपसर्गाः अविचलितसचः । (सागरो इव गंभीरे) सागर इव गम्भीर : - वर्षशोकादिसाधनसम्बन्धेऽप्यविकृतचित्तत्वात् । (शे इव सोमलेसे) चन्द्र इव सोमलेश्य:- परोपतापकृन्मनः परिणामरहितत्वात् । (सूरो इव दित्ततेए) सूर इव दीप्ततेजा - द्रव्यतो देहदीप्त्या, भावतो ज्ञानेन परेषां क्षोभकत्वाद्वा । ( जच्चकणगं व जायख्वे) जात्यकनकमिव
Jain Educatimational
For Private & Personal Use Only
॥२४९॥
Felibrary.org