________________
॥२०७॥
****
विजयाख्ये मुहर्ने हस्तोत्तरानक्षत्रे कृतषष्ठतपाः विशुद्धद्यमानलेश्याकः सर्वाऽऽभरणभूषितःप्रलम्बवनमाल: परिहितश्वेतकनकखचितान्तप्रदेश-लक्षमूल्यनासानिःश्वासवातवाह्यसुकुमारतरवस्त्रः पूर्वोक्तायां शिबिकायामारुह्य पूर्वाभिमुखं सिंहासने निषीदति । प्रभोः दक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशाटकमादाय, वामपार्श्वे प्रभोरम्बधात्री उपकरणमादाय, पृष्ठे च वरतरुणी स्फारशृङ्गारा धवलाऽऽतपत्रम् , ईशानकोणे चैका प्रतिपूर्ण भृङ्गारम् , आग्नेयकोणे त्वेका कनकदण्डमणिविचित्रतालवृन्तमादाय | भद्रासने निपीदति । ततः श्रीनन्दीवर्धनाऽऽदिष्टा हृष्टाः पुरुषा यावच्छिबिकानुत्पाटयन्ति । अत्रान्तरे-शकः शिबिकाया दाक्षिणात्यामुपरितनी बाहाम् , ईशानेन्द्र उत्तराहामुपरितनी बाहां, चमरेन्द्रो दाक्षिणात्यामधस्तनी बाहां, बलीन्द्र उत्तराहामधस्तनी बाहां। शेषा भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकेन्द्रा यथाई शिबिकामुत्पाटयन्ति । ततः शक्रेशानवर्जाः तामुद्वहन्ति । शक्रेशानौ तु चामराभ्यां वीजयतः। यतः-'सिंहासणे णिसणो, सक्कीसाणा य दोहिं पासेहिं । वीयंति चामरेहिं मणिकणगविचित्तदंडेहिं ॥१८९५॥
पुब्धि उक्खित्ता माणु-सेहिं सा हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिंदनागिंदा ॥१८९६॥ चल चवलभूसणभरा, सच्छंदविउविआभरणधारी। देविंद-दाणविंदा, वहंति सीयं जिणिदस्स ॥१८९७।। कुसुमाणि पंचवण्णाणि, उर्थता दुंदुही अ ताडता । देवगणा य पहट्ठा, समंतओ उच्छुकं गयणं ॥१८९८॥ वणसंडोव्य कुसुमिओ, पउमसरो वा जदा सरयकाले । सोहइ कुसुमभरेणं, इअ गयणयलं सुरगणेहिं १९०१॥
॥२०७।
One
Sain Educ
a
tional
For Privale & Personal Use Only
D
elibrary.org