________________
श्रीकल्प
किरावली व्या०४
टीका
॥१६६॥
| पुब्धि नो एजइ इयाणि एजइत्तिक? हतु? जाव हयहियया एवं विहरइ) <मम गर्भः पूर्व न एजति इदानीम् एजति इतिकृत्वा हृष्टा तुष्टा यावत् हर्षितहृदया एवं विचरति> -
"प्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला, रोमाञ्चितकचुका त्रिशला ॥१॥ प्रोवाच मधुरवाचा, गर्भ मे विद्यतेऽथ कल्याणम् । हा! धिग् मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥२॥ सन्त्यथ मम भाग्यानि, त्रिभुवनमान्या तथा च धन्याऽहम् । श्लाघ्यं च जीवितं मे, कृतार्थतामाप मे जन्म ॥३॥ श्रीजिनपदाः प्रसेदु, कृताः प्रसादाश्च गोत्रदेवीभिः। फलितो जन्माऽवध्याऽऽ-राधितजिनधर्मकल्पतरुः ॥४॥ इत्यादि महाहर्षिता, देवीमालोक्य वृद्धललनानाम् । 'जय जय नन्दे' त्याद्याऽऽ-शिषः प्रवृत्ता मुखकजेभ्यः ॥५॥ कलया प्रवर्तितान्यपि, कुलललनाभिश्च ललितधवलानि । उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः ॥६॥ अष्टावष्टौ मङ्गलकानि, समालेखितानि सर्वत्र । सत्पञ्चवर्णपुष्प-प्रकरः परितो भुवि विकीर्णः ॥७॥ कर्पूराऽगुरुचन्दन-परिमलनिकरः कृतश्च सर्वत्र । बद्धानि तोरणान्यपि, सुकुङ्कुमस्य छटा दत्ताः ॥८॥ स्थाने स्थाने मङ्गल-धवलाऽऽतोद्यानि गीतनृत्यानि । राजभवनं चतुर्भि-वर्णैः सङ्कीर्णमपि जज्ञे ॥९॥ वर्धापनाऽऽगताभिः, सुवर्णकोटीभिरपि च सम्पूर्णम् । हट्टश्रेणिषु शोभाः, प्रयोजिता जिनगृहे पूजा ॥१०॥ बन्दीजनमोचनानि च, रचितान्युद्घोषितोऽमारिवः । सङ्घस्याऽनघभक्ति-र्व्यक्तीचक्रे विविधविधिना ॥११॥ सम्पन्ना दानेन च, राजनराः कल्पतरव इव नव्याः । ऐश्वर्येण च राजा, सुरराज इवाऽत्र सञ्जज्ञे ॥१२॥
॥१६६॥
in Edi
tora
For Private
Personal use only
wwwjamelibrary.org