SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणानक टीका न्या.३ ॥१३२॥ BABASARER RECEMEMOREHINSA-AAA इव जीवलोके-मध्यजगति (सयणिजाओ अब्भुट्टे) शयनीयाद अभ्युत्तिष्ठति ॥६०॥ [सयणिचाओ' इत्यादितः 'पडिनिक्खमइ'त्ति पर्यन्तम्] तत्र- (सयणिज्जाओ अब्भुटेत्ता) <शयनीयाद् अभ्युत्थाय > (पायापीढाओ पचोरुहइ) < पादपीठात् प्रत्यवतरति> (पच्चोरहित्ता) <प्रत्यवतीर्य> (जेणेव) < यत्रैव > (अट्टणसाल) त्ति अट्टणशाला-व्यायामशाला (तेणेव उवागच्छति) < तत्रैव उपागच्छति > (उवागच्छित्ता अट्टणसालं अणुपविसइ) < उपागत्य व्यायाम- | शालाम् अनुप्रविशति > (अणुपविसित्ता) < अनुप्रविश्य > (अणेगवायाम जोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं) अनेकानि व्यायामानि व्यायामनिमित्तं योग्यादीनि यानि । तत्र योग्या च-गुणनिका वल्गनं च-उल्लङ्घनं व्यामईनंपरस्परेण बाहाद्यङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि च-अङ्गभङ्गविशेषाः तैः (संते) श्रान्तः सामान्येन (परिस्संते) परिश्रान्तः-अङ्गप्रत्यङ्गाऽपेक्षया सर्वतः (सयपागसहस्सपागेहिं) त्ति शतकृत्वो यत्पक्वम् अपरापरौषधीरसेन, सह शतेन कार्षापणशतेन वा यत्पक्वम् एवं सहस्रपाकमपि (सुगंधवरतिल्लमाइएहिं) सुगन्धवरतैलादिभिः अभ्यङ्गैः इति योगः। आदिशब्दात् घृतकपरपानीयादिपरिग्रहः । किं भूतैः ? (पोणणिज्जेहिं) प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः (दीवणिज्जेहिं) दीपनीयैः-अग्निजननैः (मयणिज्जेहिं) मदनीयैः-कामवद्धनैः (विहणिज्जेहिं) बृंहणीयैः-मांसोपचयकारिभिः (दप्पणिज्जेहिं) दर्पणीयैः-बलकारिभिः (सम्विदियगायपल्हायणिज्जेहिं) सर्वेन्द्रियाणि सर्वगात्राणि च प्रहलादयन्ति इति 'कर्तरि अनीयः' तैः (अभंगिए समाणे) अभ्यङ्गैः-स्नेहनः अभ्यङ्गः क्रियते स्म यस्य सः। ॥१३२॥ Sain Educ a tional For Private & Personal use only H alibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy