SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पाल्य चतुर्विंशतितमे भवे महाशुक्रे देवः, ततश्च्युतः पञ्चविंशे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्यां जिसशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिवर्षलक्षायुर्नन्दनो नाम पुत्रः, स च पोहिलाचार्यपार्श्वे चारित्रं गृहीत्वा यावज्जीवं मासक्षपणैर्विशतिस्थानकाराधनेन च तीर्थकर नामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य | मासिकया संलेखनया मृत्वा षड्विंशतितमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थितिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भवे ब्राह्मणकुण्ड| ग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः ब्राह्मण्याः कुक्षौ उत्पन्नः, ततः शक्र एवं चिन्तयति (जन्नं अरहंता वा ) यत् एवं नीचैर्गोत्रोदयेन अर्हन्तो वा ( चक्कवटी वा ) चक्रवर्तिनो वा ( बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा ( अन्तकुलेसु वा ) अन्त्याः शूद्रास्तेषां कुलेषु वा ( पन्तकुलेसु वा ) प्रान्ता - अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा ) तुच्छा - अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु वा ) दरिद्रा - निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा ) कृपणा :- अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा ) भिक्षाका :- चारणादयस्तेषां कुलेषु वा ( माहणकुलेसु वा ) ब्राह्मणानां कुलेषु वा ( आयाइंसु वा ) आगता अतीतकाले ( आयाइंति वा ) आगच्छन्ति वर्त्तमानकाले ( आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले ( कुच्छिसि ) कुक्षौ (गन्भत्ताए ) गर्भतया ( वक्कमिंसु वा ) उत्पन्ना वा ( वक्कमंति वा ) उत्पद्यन्ते वा ( वक्कमिस्संति वा ) उत्पत्स्यन्ते वा परं ( नो चेव णं ) नैव ( जोणीजम्मणनिकखमणेणं ) योन्या यत् Jain Education International For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy