________________
गौतम! नायं जिनः, किंतु शरवणग्रामवासी मङ्खलेः सुभद्राभार्यायां गोबहुलब्राह्मणगोशालायां जातत्वात् गोशालनामा अस्माकं एव शिष्यीभूतोऽस्मत्त एव किञ्चिद् बहुश्रुतीभूतो मुधा खं जिन इति ख्यापयति, ततः सर्वतः प्रसिद्धा इमां वार्ता आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद-भो | आनन्द ! एकं दृष्टान्तं शृणु, यथा-केचिद्वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरण्यं प्रविष्टास्तत्र जलाभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, तत-| स्तरेकं शिखरं स्फोटितं, तस्माद्विपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत एकेन वृद्धेनोक्तं-सिद्धं अस्माकं समीहितं अथ मा स्फोटयन्तु द्वितीयं शिखरं इति निवारिता अपि द्वितीयं स्फोटयामासुस्तस्माच सुवर्ण प्राप्तवन्तः तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तस्तस्माद्रत्नानि प्राप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थं अपि स्फोटयन्ति स्म, तस्माच प्रादुर्भूतेन दृष्टिविषसण सर्वेऽपि खदृष्टिपातेन पश्चत्वं प्रापिताः, स हितोपदेशको वणिक तु न्यायित्वात् आसन्नदेवतया स्वस्थाने मुक्तः, एवं तव धर्माचार्योऽपि एतावत्या स्वसम्पदा असन्तुष्टो यथातथाभाषणेन मां रोषयति, तेनाहं खतपस्तेजसा धक्ष्यामि, ततस्त्वं शीघ्रं तत्र गत्वा एनं अर्थ तस्मै निवेदय, त्वां च वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवदग्रे सर्व व्यतिकरं कथितवान्, ततो भगवता उक्तं-भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय यत् एष गोशाल आगच्छति न केनार्यस्य १४
Jain Education indbal
For Private
Personel Use Only
www.jainelibrary.org