________________
कल्प.सुबोव्या०१
॥१९॥
(मिसिमिसिंतत्ति) देदीप्यमानानि (मणिरयणमंडिआउत्ति) मणयः-चन्द्रकान्तादयः रत्नानि-कर्केतनादीनि तैर्मण्डिते (पाउआओ ओमुअइत्ति) इदृश्यौ पादुके अवमुञ्चति (ओमुइत्तत्ति) अवमुच्य (एगसा-IST डिअं उत्तरासंगं करेइ, करित्तत्ति) एकपटं उत्तरासङ्गं करोति, तत् कृत्वा च (अञ्जलिमउलिअग्गहत्थेत्ति) अञ्जलिकरणेन मुकुलीकृतौ-योजितौ अग्रहस्तौ येन स तथाभूतः (तित्थयराभिमुहे सत्तट्ट पयाई अणुगच्छइत्ति) सप्ताष्ट पदानि तीर्थकराभिमुखोऽनुगच्छति (अणुगच्छित्तत्ति) तथा कृत्वा (वामं जाणुं अंचेइत्ति) वामं जानु उत्पाटयति-भूमौ अलग्नं स्थापयति (अंचित्तत्ति) तथा संस्थाप्य (दाहिणं जाणुं धरणितलंसित्ति) दक्षिणं जानुं धरणीतले (साहडत्ति) निवेश्य (तिक्खुत्तोत्ति) वारत्रयं (मुद्धाणं धरणितलंसि निवेसेइत्ति) मस्तकं धरणीतले निवेशयति (निवेसित्ता) तथा कृत्वा (इसिं पञ्चुन्नमइत्ति) इंषत् प्रत्युन्नमति-उत्तरार्धेन ऊों भवतीत्यर्थः (पसुन्नमित्तत्ति) ऊर्तीभूय (कडगतुडिअथंभिआओ भुआओ साहरइत्ति) कटकत्रुटिका:-कङ्कणबाहुरक्षकास्ताभिः स्तम्भिते भुजे वालयति (साहरित्तत्ति) वालयित्वा (करयलपरिग्गहिअं दसनहति) करतलपरिगृहीतं-हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं (सिरसावत्तंति) शिरसि-मस्तके आवत्ते:प्रदक्षिणभ्रमणं यस्य एवंविधं (मत्थए अंजलिं कडुत्ति) मस्तके अञ्जलिं कृत्वा (एवं वयासीत्ति) एवं अवादीत्,SI १९॥ (१४) किं तदित्याह-(नमुऽत्थु णंति) णङ्कारःसर्वत्र वाक्यालङ्कारार्थः, नमोऽस्तु, केभ्यः?-(अरहंताणंति) अर्हयात्रिभुवनकृतपूजायोग्येभ्यः, रागद्वेषरूपकर्मवैरिहननात् 'अरिहन्ताणं' इति पाठः, रागद्वेषरूपकर्मबीजाभावेन
Jain Education in
For Private Personel Use Only
ww.jainelibrary.org