________________
द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्धभारमानः स्यात्तदा स उन्मानप्राप्तः, तत्र भारमानं-'षट्सर्षपैर्यवस्त्वेको, गुजैका च यवैस्त्रिभिः। गुञ्जात्रयेण वल्ल: स्याद, गयाणे ते च षोडश ॥१॥पले। च दश गयाणास्तेषां सार्धशतं मणे । मणैर्दशभिरेका च, धटिका कथिता बुधैः ॥२॥ धटिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः अत्र 'तेषां सार्द्धशतं मणे' इति तेषां गद्याणानां इति वाच्यं न तु पलानां, पलानां सार्धशतेन मणकथने हि भारे अष्टसप्ततिर्मणाः स्युस्तदर्धं च एकोनचत्वारिंशन्मणाः, एतावच शरीरमानं न सम्भवति, गद्याणानां सार्धशतेन मणकथने तु भारे चत्वारिंशत्शेरमानेन पादोना अष्ट मणाः किश्चिदधिका जायन्ते, सम्भवति च तदर्धमानं पञ्चशेराधिकपादोनचतुर्मणप्रमाणं शरीरमिति, संभवति च गद्याणकानां सार्धशतस्यापि मणत्वं, कचिद्देशे किञ्चिदूनशेरत्रयस्यापि मणत्वव्यवहारात्, तथा 'पमाण'त्ति स्वाङ्गुलेन अष्टोत्तरशताङ्गुलोच उत्तमपुरुषः, मध्यहीनपुरुषौ च षण्णवतिचतुरशीत्यङ्गुलोचौ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशाङ्गुलोष्णीषसद्भावेन विंशत्यधिकशताङ्गुलोचो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि-शिरःप्रमुखाणि यत्र एवंविधं सुन्दरं अङ्गं यस्य तथा तं, पुनः किंवि०(ससिसोमागारेत्ति) शशिवत्सौम्याकारं (कन्तन्ति) कमनीयं (पियदंसणंति) वल्लभदर्शनं (सुरुवंति) शोभनरूपं (दारयं पयाहिसित्ति) दारकं प्रजनिष्यसीति ज्ञेयम् (८)॥ ॥ (सेवि अ णं दारएत्ति) सोऽपि दारक एवंविधो भविष्यति, किंवि०-13 (उम्मुक्कबालभावेत्ति) त्यक्तबाल्यो-जाताष्टवर्षः, पुनः किंवि०?-(विनायपरिणयमित्तेत्ति) विज्ञानं परिण-18
Jain Education in
real
For Private & Personel Use Only
Onew.jainelibrary.org