SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०१ मर्त्ययोनेः समुद्भूतो, भविता च पुनस्तथा ॥५॥ मायालोभक्षुधालस्यवहाहारादिचेष्टितैः । तिर्यग्योनेः समु-18 लक्षणवर्णनं त्पत्ति, ख्यापयत्यात्मनः पुमान् ॥६॥ सरागः खजनद्वेषी, दुर्भाषो मूर्खसङ्गकृत् । शास्ति खस्य गतायातं, नरो नरकवर्त्मनि ॥७॥ आवतॊ दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् । वामो वामेतिनिन्द्यः स्याद्दिगन्यत्वे तु मध्यमः ॥८॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःखा, दु:खिता नात्र संशयः ९॥ अनामिकाऽन्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा ॥१०॥ मणिबन्धात पितुर्लेखा, करभाद्विभवायुषोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गष्ठकान्तरम् ॥११॥ येषां रेखा इमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, सम्पूर्णान्यन्यथा न तु ॥ १२॥ उल्लङ्यन्ते च यावत्योऽङ्गुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेयास्तावत्यः शरदां बुधैः ॥१३॥ यवै'रङ्गुष्ठमध्यस्थैर्विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तैः॥१४॥ न स्त्री त्यजति रक्ताक्षं, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्चयें, न मांसोपचितं सुखम् ॥१५॥ चक्षुःस्नेहेन सौभाग्यं, दन्तस्लेहेन भोजनम् । वपुःलेहेन सौख्यं स्यात्, पादनेहेन वाहनम् ॥ १६ ॥ उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपाद: सततं सुखी स्यात् ॥१७॥ ॥१४॥ इमानि लक्षणानि, व्यञ्जनानि च-मषतिलकादीनि तेषां ये गुणास्तैरुपेतं, पुनः किंवि० (माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंगति) तत्र मानं-जलभृतकुण्डान्तः पुरुषे निवेशिते यजलं निस्सरति यदि तजलं Jain Education s eal For Private & Personel Use Only AIMw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy