SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ (ओहिरमाणि २ त्ति) अल्पां निद्रां कुर्वती (इमेत्ति) इमान् (एयाख्वेत्ति) एतद्रूपान्-वक्ष्यमाणखरूपान् | (उरालेत्ति) उदारान-प्रशस्तान (कल्लाणेत्ति) कल्याणहेतून् (सिवेत्ति) शिवान-उपद्रवहरान् (धन्नेत्ति) धन्यान्-धनहेतून् ( मंगल्लेत्ति) मङ्गलकारकान् (सस्सिरीएत्ति) सश्रीकान् (चउद्दस महासुमिणे) ईदृशान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धत्ति) दृष्ट्वा जागरिता, (तंजहत्ति) तद्यथा-(गय १ वसह २ सीह३ अभिसे४ दाम ५ ससि ६ दिणयरं ७ अयं ८ कुंभं । पउमसर १० सागर ११ विमाणभवण १२ रयणुचय १३ सिहिं च १४॥१॥) हस्ती १ वृषभः २सिंहः ३ अभिषेकः श्रियाः सम्बन्धी ४ पुष्पमाला५ चन्द्रः६सूर्यः16 ७ ध्वजः ८ पूर्णकुम्भः ९ पद्मोपलक्षितं सरः१० समुद्रः ११ विमानं देवसम्बन्धि भवनं-गृहं, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाचतुर्दशैव स्वप्नाः १२ रत्नानां उच्चयो-राशिः१३ शिखी-निर्धूमोऽग्निः१४ (४)। (तएणं सा देवानंदा माहणी) ततः सा देवानन्दा ब्राह्मणी (इमेति) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति) उदारान्-प्रशस्तान् (जावत्ति) यावत्शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणेत्ति) यथोक्तान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धा समाणीति) दृष्ट्वा जागरिता सती ( हत्ति) हृष्टा-विस्मयं प्राप्ता (तुहत्ति) संतोषं प्राप्ता (चित्तमाणंदिअत्ति) चित्तेन आनन्दिता (पीइमणत्ति) प्रीतिर्मनसि यस्याः सा तथा प्रीतियुक्तचित्ता (परमसोमणस्सिआ) परमं सौमनस्य-सन्तुष्टचित्तत्वं जातं यस्याः सा तथा (हरिसवसत्ति) हर्षवशेन (विसप्पमाणत्ति) विस्तारवत् Jain Education For Private Personel Use Only rww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy