SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ हिनापराधक्षमणा कक्खडे कडुए विग्गहे समुप्पजित्था ) अद्यैव-पर्युषणादिने एव 'कक्खड'त्ति उच्चैःशब्दरूपः कटुको-जकार- | मकारादिरूपो विग्रह:-कलहः समुत्पद्यते तदा (सेहे राइणि खामिजा) शैक्षो-लघुः रानिकं-ज्येष्ठं क्षमयति, यद्यपि ज्येष्ठः सापराधस्तथापि लघुना ज्येष्ठः क्षमणीयो व्यवहारात्, अर्थोपरिणतधर्मत्वाल्लघुज्येष्ठं न क्षमयति तदा किं कर्त्तव्यमित्याह-(राइणिएवि सेहं खामिजा) ज्येष्ठोऽपि शैक्षं क्षमयति (खमियचं खमावियचं उवसमियवं उवसामियचं) ततः क्षन्तव्यं वयमेव क्षमयितव्यापरः,उपशमितव्यं वयं उपशमयितव्यः परः (सुमइसंपुच्छणाबहुलेणं होयचं)शोभना मतिःसुमतिः-रागद्वेषरहितता तत्पूर्व या सम्पृच्छना-सूत्रार्थविषया समाधिप्रश्नोवा तहहुलेन भवितव्यं, येन सहाधिकरणमुत्पन्नमासीत्तेन सह निर्मलमनसा आलापादि कार्यमिति भावः, अथ द्वयोर्मध्ये यद्येक क्षमयति नापरस्तदा का गतिरित्याह-(जो उवसमइ तस्स अस्थि आराहणा, जोन उवसमइ तस्स नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नास्ति तस्याराधना(तम्हा अप्पणा चेव उवसमियबं) तस्मात् आत्मना एव उपशमितव्यं,(से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य! इति पृष्टे गुरुराह-(उवसमसारं खु सामन्नं) उपशमप्रधानं श्रामण्यं-श्रमणत्वं, अत्र दृष्टान्तो यथा -सिन्धुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राद्धार्पितगुटिकाभक्षणतो जाताद्धृतरूपाया: सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अपका हारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराज देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसङ्ग्रामे बध्ध्वा पश्चा Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy