________________
कल्प. सुबो
व्या० ९
॥१९१॥
Jain Education
नमपि अधिकरणं तद्वक्तुं न कल्पते (जे णं निग्गंधो वा निग्गंधी वा परं पज्जोसवणाओ अहिगरणं वयइ) पश्च साधुः साध्वी वा पर्युषणातः परं अज्ञानात् क्लेशकारि वचनं वदति (से णं 'अकप्पेणं अज्जो वयसित्ति' वत्तवे सिया ) स एवं वक्तव्यः स्यात् - हे आर्य ! त्वं अकल्पेन - अनाचारेण वदसि, यतः पर्युषणादिनतोऽर्वाग् तद्दिने एव वा यदधिकरणं उत्पन्नं तत् पर्युषणायां क्षमितं यच्च त्वं पर्युषणातः परं अपि अधिकरणं वदसि सोऽयमकल्प इति भावः (जे णं निग्गंथो वा निग्गंधी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं निज्जूहियवे सिया ) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निहितव्यः - ताम्बूलिक पत्रदृष्टान्तेन सङ्घाद् वहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्रविनाशनभयाद् बहिः क्रियते तद्वदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथाऽन्योऽपि द्विजदृष्टान्तो यथा - खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लावा क्षेत्रं गतो, हलं वाह्यतस्तस्य गली बलीबई उपविष्टः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा कुद्धेन तेन केदारत्रयमृत्खण्डैरे वाहन्यमानो मृत्खण्ड स्थगितमुखः श्वासरोधान्मृतः, पश्चात् स पश्चात्तापं विदधानो महास्थाने गत्वा ववृत्तान्तं कथयन्नुपशान्तो न वेति तैः पृष्टो नाद्यापि ममोपशान्तिरिति वदन् द्विजैरपाङ्क्तेयश्चक्रे, एवं अनुपशान्तकोपतया | वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि, उपशान्तोपस्थितस्यैव मूलं दातव्यं ॥ (५८) | ( वासावासं पजोसवि| याणं इह खलु निग्गंथाण वा निग्गंथीण वा ) चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च (अज्जेव
For Private & Personal Use Only
अधिकरणनिषेधः सू.
५८
२०
२५
॥१९१॥
२८
w.jainelibrary.org