SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ वा साक्षी भवति तदा स्थातुं कल्पते ( अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगओ चिट्ठित्तए) अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने, एवं कल्पते एकत्र स्थातुं, ( एवं चैव निग्गंथीए अगारस्सय भाणियां ) | एवमेव साध्याः गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा कारणाद्भवति, अन्यथा हि उत्सर्गतः साधुरात्मना द्वितीयः साध्यस्तु ज्यादयो विहरन्ति ॥ ( ३९ ) ॥ ( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा (अपरिन्नएणं ) मदर्थं त्वं मम योग्यमशनमानयेः इति अपरिज्ञप्तेन-अज्ञापितेन साधुना अपरिन्नयस्स अट्ठाए असणं ४ जाव पडिगाहित्तए) अहं त्वद्येोग्यं अन्नमानयिष्यामीति अपरिज्ञापितस्य साधोः निमित्तं अशनादि ४ यावत् प्रतिग्रहीतुम् ॥ (४०)॥ अत्र शिष्यः पृच्छति - ( से किमाहु भंते !) तत् कुतो भदन्त इति पृष्ठे गुरुराह - ( इच्छा परो अपरिन्नए भुंजिजा इच्छा परो न भुंजिजा ) इच्छा चेदस्ति तदा परोऽपरिज्ञापितः यदर्थ आनीतं स भुञ्जीत, इच्छा न चेत्तदा न भुञ्जीत, प्रत्युतैवं वदति - केनोक्तमासीत् यत्त्वया आनीतं, किं च- अनिच्छया दाक्षिण्यतश्चेद् भुङ्क्ते तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थण्डिलदौर्लभ्याद्दोषः स्यात्, तस्मात् पृष्ट्वा आनेयं ॥ ( ४१ ) ॥ ( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा ) नो कल्पते साधूनां साध्वीनां च ( उदउल्लेण वा ससिणिद्वेण वा काएणं असणं वा ४ आहारित्तए) उदकार्येण - गलद् Jain Education rational For Private & Personal Use Only अपरिज्ञप्त - शनाद्यशन निषेधः सू. ४०-४१ ५ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy