________________
त्तिविधिः सू. २६
||नोविय णं ससित्थे ) तदपि सिक्थरहितं नैव सिक्थसहितं, यतः प्रायेण अष्टमादूर्व तपखिनः शरीरं देवो- ऽधितिष्ठति ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (भत्तपडियाइक्खियस्स भिकखुस्स) भक्तप्रत्याख्यानकरस्थ-अनशनकारिणः भिक्षोः (कप्पइ एगे उसिणवियडे पडिगाहित्तए) कल्पते एकं उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे) तदपि सिक्थरहितं, नैव सिक्थसहितं (सेविय णं परिपूए नो चेवणं अपरिपूए)तदपि परिपूर्त-वस्त्रगलितं नैव अगलितं, तृणादेगले लगनात् (सेविय णं परिमिए, नो चेव णं अपरिमिए) तदपि मानोपेतं नैव अपरिमितं, अन्यथाऽजीणं स्यात् (सेविय णं बहुसंपन्ने नो चेवणं अबहुसंपन्ने ) तदपि बहुसंपूर्ण-किश्चिदूनं नैव बहुन्यून, तृष्णानुपशमात् ॥ (२५)॥
(वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (संखादत्तियस्स भिकूखुस्स ) दत्तिसङ्ख्याकारिणो भिक्षोः (कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिग्रहीतुं पश्च पानकस्य (अहवा चत्तारि भोअणस्स पंच पाणगस्स) अथवा चतस्रः भोजनस्य पञ्च पानकस्य (अहवा पंच भोअणस्स चत्तारि पाणगस्स) अथवा पञ्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदुच्यते इत्याह-(तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया) तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात्, यतो लवणं किल स्तोकं दीयते, यदि तावन्मानं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते, पश्चेत्युपलक्षणं तेन चतस्रस्तिस्रो द्वे एका षट् सप्त वा यथाभि
Jain Education Thematiana
For Private & Personel Use Only
www.jainelibrary.org