SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ च २ यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहिता ३ यत्र भिक्षा च सुलभा ४, त्रयोदशगुणं उत्कृष्टं, ते चामी - 'चिक्खिल्ल १ पाण २ थंडिल्ल, ३ वसही ४ गोरस ५ जणाउले ६ विज्जे ७ ॥ ओसह ८ निश्चया ९ हिवई १० पासंडा ११ भिक्ख १२ सज्झाए १३ ॥ १ ॥ यत्र भूयान् कर्दमो न भवति १ यत्र बहवः संमूच्छिमाः प्राणिनो न भवन्ति २ यत्र स्थण्डिलं निर्दोषं भवति ३ यत्र वसतिः स्त्रीसंसर्गादिरहिता ४ यत्र गोरसं प्रचुरं ५ यत्र जनसमवायो महान् भद्रकश्च ६ यत्र वैद्याश्च भद्रकाः ७ यत्र औषधानि सुलभानि ८ यत्र गृहस्थगृहाः सकुटुम्बा धनधान्यादिपूर्णाश्च ९ यत्र राजा भद्रकः १० यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् ११ यत्र भिक्षा सुलभा १२ यत्र स्वाध्यायः शुद्ध्यति १३ 'चउग्गुणोववेयं तु खित्तं होह जहन्नयं । तेरसगुणमुकोसं, दुहं मज्झमि मज्झिमयं ॥ १ ॥ पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच न्यूनं द्वादशगुणपर्यन्तं मध्यमं क्षेत्रं, एवं च उत्कृष्टे क्षेत्रे तद्प्राप्तौ मध्यमे तस्यापि अप्राप्तौ जघन्ये क्षेत्रे साम्प्रतं च गुर्वादिष्टे क्षेत्रे साधुभिः पर्युषणाकल्पः कर्तव्यः ॥ अयं च दशप्रकारोsपि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयोषधवत् हितकारको भवति, तथाहिकेनचिद् भूपतिना खपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारिताः, तत्र प्रथमो वैद्य आह मदीयं औषधं रोगसद्भावे रोगं हन्ति रोगाभावे च दोषं प्रकटयति, राज्ञोक्तं- मुप्तसर्पोत्थापनतुल्येन १ चतुर्गुणोपपेतं तु क्षेत्रं भवति जघन्यकं । त्रयोदशगुणमुत्कर्षं द्वयोर्मध्ये मध्यमकं ॥ १ ॥ Jain Education Innal For Private & Personal Use Only Hww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy