________________
भविष्यन्ति ? इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं-महाभाग ! दुातं भवता, || अहो ! अयुक्तमेतद्यतीनां, इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयं-1 तत्र केचिदीरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगता गुरुभिः पृष्टा निषिद्धाश्च नटावलोकनं प्रति, पुनर्रन्यदा नटी नृत्यन्तीं विलोक्य आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुर्बादं पृष्टाश्च सत्यं प्रोचुः, गुरुभिरुपालम्भे च दत्ते संमुखं गुरूनेव उपालब्धवन्तः-यदस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतो? भवतां एव अयं दोषः, अस्माभिः किं ज्ञायते? इति प्रथमो दृष्टान्तः। तथा कश्चियवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं वक्रतया मनसि दधार, अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्त्य कपाटं दत्त्वा स्थितः, आगतेषु च पित्रादिषु द्वारोद्घाटनार्थ बहुशब्दकरणेऽपि न वक्ति न चोद्घाटयति, भित्त्युल्लङ्घनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालन्धश्च कथयामास-भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः ॥ अोजितादियतीनां ऋजुप्राज्ञत्वे दृष्टान्तः-यथा केचिदैजितजिनयतयो नटं निरीक्ष्य चिरेणागता गुरुभिः पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिद्धाः, अथ अन्यदा ते बहिर्गताः नटी नृत्यन्ती विलोक्य प्राज्ञत्वात् विचारयामासुः-यदस्माकं रागहेतुत्वाद् गुरुभिनटनिरीक्षणं निषिद्धं तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्वैवेति विचार्य नटीं नालोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्रा
PeeleesecscecececesseeeekreeceElee
Jain Educatan inte
For Private & Personel Use Only
r.jainelibrary.org