________________
Jain Education
मायां (हत्थिपालस्स रण्णो ) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) रज्जुका - लेखकाः ' कारकुन ' इति लोके प्रसिद्धास्तेषां शाला-सभा जीर्णा- अपरिभुज्यमाना तत्र भगवान् (अपच्छिमं अंतरावास ) अपश्चिमम्-अन्त्यं चतुर्मासकं ( वासावासं उवागए ) वर्षावासार्थं उपागतः, पूर्व किल तस्या नगर्या 'अपापा' इति नामासीत् देवैस्तु 'पापा' इत्युक्तं, तत्र भगवान् कालगत इति ॥ ( १२२ ) ॥
( तत्थ णं जे से पावाए मज्झिमाए ) तत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रण्णो ) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) लेखकशालायां (अपच्छिमं अंतरावासं ) अन्त्यं चतुर्मासकं ( वासावासं उवागए ) वर्षावासार्थं उपागतः ॥ ( १२३ ) |
( तस्स णं अंतरावास्स ) तस्य चतुर्मासकस्य मध्ये (जे से वासाणं ) योऽसौ वर्षाकालस्य ( चउत्थे मासे सत्तमे पक्खे) चतुर्थः मासः सप्तमः पक्षः ( कत्तिअबहुले ) कार्त्तिकस्य कृष्णपक्षः ( तस्स णं कत्तिअबहुलस्स) तस्य कार्त्तिक कृष्णपक्षस्य ( पण्णरसीपकखेणं) पञ्चदशे दिवसे ( जा सा चरमा रयणी ) या सा चरमा रजनी ( तं स्यणिं च णं समणे भगवं महावीरे ) तस्यां रजन्यां च श्रमणो भगवान् महावीरः ( कालगए ) कालगतः, कायस्थितिभवस्थितिकालागतः ( विइते ) संसाराद्वयतिक्रान्तः ( समुज्जाए ) समुद्यात:सम्यग् - अपुनरावृत्त्या ऊर्ध्व यातः (छिन्नजाइजरामरणबंधणे ) छिन्नानि जातिजरामरणबन्धनानि - जन्मजरामरणकारणानि कर्माणि येन स तथा (सिद्धे ) सिद्ध: - साधितार्थः (बुद्धे ) बुद्ध: - तत्त्वार्थज्ञानवान् (मुत्ते )
tional
For Private & Personal Use Only
अन्यं चतुर्मासक
सिद्धि: तू.
१२३-४
५
१०
१४
www.jainelibrary.org