________________
कल्प. सुबोपा० ६
॥ १११ ॥
रणे ) समस्तावरणरहिते ( कसिणे ) समस्ते ( पडिपुण्णे ) सर्वावयवोपेते ( केवलवरनाणदंसणे समुत्पन्ने एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ॥ ( १२० ) ॥
(तए णं समणे भगवं महावीरे ) ततो- ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् महावीरः ( अरहा जाए ) अर्हन् जात:- अशोकादिप्रातिहार्यपूजायोग्यो जातः पुनः कीदृशः ? ( जिणे केवली सधन्नू सङ्घदरिसी ) जिनो - रागद्वेषजेता केवली सर्वज्ञ सर्वदर्शी ( सदेवमणुआसुरस्स लोगस्स ) देवमनुजासुरसहितस्य लोकस्य ( परियायं जाणइ पास ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च-साक्षात् करोति, तर्हि किं देवमनुजासुराणां एव पर्यायमात्रं एव जानातीत्याह - ( सबलोए सङ्घजीवाणं ) सर्वलोके सर्वजीवानां ( आगई गई ठिई चवणं उववायं ) आगतिं भवान्तरात्, गतिं च भवान्तरे, स्थितिं तद्भवसत्कं आयुः, कायस्थितिं वा, च्यवनं देवलोकान्तिर्यग्नरेषु अवतरणं, उपपातो- देवलोके नरकेषु वोत्पत्तिः (तक्कं मणो ) तेषां सर्वजीवानां सम्बन्धि तत्कं - ईदृशं यन्मनः ( माणसियं ) मानसिकं - मनसि चिन्तितं ( भुत्तं ) भुक्तं, अशनफलादि (कडं ) कृतं, चौर्यादि ( पडिसेवियं ) प्रतिसेवितं मैथुनादि ( आविकम्मं ) आविः कर्म-प्रकटकृतं (रहोकम्मं ) रहः कर्म-प्रच्छन्नं कृतं एतत् सर्वं सर्वजीवानां भगवान् जानातीति योजना, पुनः किंवि० प्रभुः ? ( अरहा ) न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात्, अरहाः (अरहस्तभागी )
Jain Education Internationa
For Private & Personal Use Only
| केवलज्ञान
फलम् सू. १२१
॥१११॥ २५
jainelibrary.org