________________
Jain Education In
वैशाख शुक्लपक्षः ( तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं) तस्य वैशाखशुद्धस्य दशमी दिवसे ( पाईणगामिणीए छायाए) पूर्वगामिन्यां छायायां सत्यां (पोरिसीए अभिनिविहाए ) पाश्चात्यपौरुष्यां अभिनिर्वृत्तायांजातायां सत्यां, कीदृशायां ? ( पमाणपत्ताए ) प्रमाणप्राप्तायां, न तु न्यूनाधिकायां ( सुवएणं दिवसेणं ) सुव्रतनामके दिवसे ( विजएणं मुहुत्तेणं) विजयनानि मुहूर्त्ते ( जंभियगामस्स नगरस्स बहिया ) जृम्भिक - ग्रामनामकस्य नगरस्य बहिस्तात् (उज्जुवालुयाए नईए तीरे) ऋजुवालुकायाः नद्याः तीरे (वेयावत्तस्य चेइयरस) व्यावृत्तं नाम जीर्ण एवंविधं यचैत्यं - व्यन्तरायतनं तस्य (अदूर सामंते) नातिदूरे नातिसमीपे इत्यर्थः (सामागस्स गाहावइस्स) श्यामाकस्य गृहपते:- कौटुम्बिकस्य (कट्ठकरणंसि) क्षेत्रे (सालपायवस्स अहे) सालपादपस्य अधो ( गोदोहियाए ) गोदोहिया ( उक्कुडियनिसिजाए ) उत्कटिकया निषद्यया ( आयावणाए आयावेमाणस्स ) आतापनया आतापयतः प्रभोः (छणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन ( हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं ) उत्तराफल्गुनीनक्षत्रे चन्द्रेण योगं उपागते सति ( झाणंतरियाए वद्यमाणस्स ) ध्यानस्य अन्तरे - मध्यभागे वर्त्तमानस्य, कोऽर्थः :- शुक्लध्यानं चतुर्धा - पृथक्तत्ववितर्क सविचारं १ एकत्ववितर्क अविचारं २ सूक्ष्मक्रियं अप्रतिपाति ३ उच्छिन्नक्रियं अनिवर्त्ति ४, एतेषां मध्ये आयभेदद्वये ध्याते इत्यर्थः ( अनंते ) अनन्तवस्तुविषये ( अणुत्तरे ) अनुपमे ( निवाघाए ) निर्व्याघाते भित्त्यादिभिरस्खलिते ( निराव
For Private & Personal Use Only
१०
१३
jainelibrary.org