________________
स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्यगृहे सिंहो ग्रामणीपुत्रो विद्युन्मत्या दास्या सह|
हास: ताडक्रीडन् हसितः कुहितश्च तेन, खामिनं प्राह-अहं एकाक्येव कुहितो यूयं किं न वारयत?, सिद्धार्थः प्राह-मैवं नामनिवपुनः कुर्याः, ततः पात्रालके गतस्तस्थिवांश्च शून्यागारे, तत्र स्कन्दः स्वदास्या स्कन्दिलया सह क्रीडन् हसि- न्द्रवृत्तं तुर्या तस्तथैव तेन कुहितश्च, ततः स्वामी कुमाराकं सन्निवेशं गत्वा चम्परमणीयोद्याने कायोत्सर्गेण तस्थौ । इतश्च | चतुर्मासी श्रीपार्श्वनाथशिष्यो भूरिशिष्यपरिवृतो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां तस्थौ, तत्साधून निरीक्ष्य गोशालः प्राह-के यूयं ?, तैरुक्तं-वयं निर्ग्रन्थाः, पुनः प्राह-क यूयं क च मम धर्माचार्यः ?, तैरूचे-यादृशस्त्वं तादृशस्तव धर्माचार्योऽपि भविष्यति, ततो रुष्टेन गोशालेनोचे-मम धर्माचार्यतपसा दह्यतां युष्मदाश्रयः, तैरूचे-नेयं भीतिरस्माकं, पश्चात् स आगत्य सर्व उवाच, सिद्धार्थो जगौ-नैते साधवो दह्यते, रात्री जिनकस्पतुलनां कुर्वाणो मुनिचन्द्रः कायोत्सर्गस्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पन्नावधिश्च स्वर्ग जगाम, सुरैमहिमार्थ उद्योते कृते गोशालो जगौ-अहो तेषां उपाश्रयो दह्यते, तदा सिद्धार्थेन यथास्थिते कथिते स तत्र गत्वा तच्छिष्यान् निर्भत्स्यांगतः। ततः स्वामी चौरायां गतः, तत्र'चारिको हेरिको इति कृत्वा रक्षका अगडे प्रक्षिपन्ति, प्रथमं गोशालः क्षिप्तः प्रभुस्तु नौद्यापि, तावता तत्र सोमाजयन्तीनाम्न्यो उत्पलभगिन्यो। संयमाक्षमे परिवाजिकीभूते प्रभु वीक्ष्योपलक्ष्य च ततः कष्टान्मोचयामासतु,ततः प्रभुः पृष्ठचम्पांप्राप्तः, तत्र वषों(४) श्चतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा कायङ्गलसन्निवेशं गत्वा श्रावस्त्यां गतः,तत्र बहिः प्रतिमया स्थितः,
सम, सुरैर्महिमा निचन्द्रः काल आगत्य सर्व गोशालेनोंचे-भरच मम धर्मावस्यो, तत्साधन
क.सु.१८॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org