SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ स्वलो ददाति, सा च यथोचित मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतु:-यदुत भो! आवाभ्यां आगन्तुं न शक्यते परं यद् भवतां विवाहे युज्यते तदस्मद्गहाद् ग्राह्य, ततो व्यवहारिदत्तश्चन्द्रोदयाधुपकरणैर्वस्त्रोभरणधूपादिभिश्च स आभीरविवाहोडत्यन्तं उत्कृष्टो जाता,तेन प्रमुदिताभ्यां आभीराभीरीभ्यां अतिमनोहरौ समानवयसौ बालवृषभौ आनीय तयोदत्तो, तो नेच्छता, बलाद् गृहे बध्ध्वा तौ स्वगृहं गतौ, व्यवहारिणा चिन्तितं-यदि इमौ पश्चात् प्रेषयिष्येते तदा षण्ढीकरणभारोबहनादिभिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्तो पोष्यमाणो वाहनादिश्रमविवर्जितो सुखं तिष्ठतः, अन्यदाच अष्टम्यादिषु कृतपौषधेन तेन श्रावकेण पुस्तकादि वाच्यमानं निशम्य तो भद्रको जातो, यस्मिन् दिने स श्रावक उपवासं करोति तस्मिन् दिने तौ अपि तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि साधर्मिकत्वेन अत्यन्तं प्रियौ जातो, एकदा तस्य जिनदासस्य मित्रेण तो अतिबलिष्ठौ सुन्दरौ वृषौ विज्ञाय श्रेष्ठिनं अनापृच्छथैव भण्डीरवनयक्षयात्रायै अदृष्टधुरौ अपि तथा वाहिती यथा त्रुटितौ, आनीय तस्य गृहे बद्धौ, श्रेष्ठी च तौ तदवस्थौ विज्ञाय साश्रुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्निर्यामितवान् , ततस्तो मृत्वा नागकुमारी देवी जातो, तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरेकतरेण नौ रक्षिता अन्येन च प्रभुं उपसर्गयन् सुदंष्टमुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ च समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वातौ स्वस्थानं गतौ। भगवानपि राजगृहे नालन्दायां तन्तु Jain Education Tshal For Private & Personel Use Only Shaw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy