SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ५ ॥ ९५ ॥ Jain Education समस्तशोभया (सङ्घसंभ्रमेणं) सर्वसम्भ्रमेण - प्रमोदजनितौत्सुक्येन (सङ्घसंगमेणं) सर्वसङ्गमेन - सर्वस्वजन मेलापकेन (सङ्घपगइएहिं ) सर्वप्रकृतिभिः - अष्टादशभिर्नंगमादिभिः नगरवास्तव्य प्रजाभिः (सङ्घनाडएहिं) सर्वनाटकैः ( सङ्घतालायरेहिं ) सर्वतालाचरैः (सधावरोहेणं) सर्वावरोधेन - सर्वान्तः पुरेण ( सङ्घपुष्पगंधमल्लालंकारविभूसाए) सर्वपुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया (सवतुडियसद्दसणिनाएणं) सर्वत्रुटितशब्दानां यः शब्दः संनिनादश्च प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह - ( महया इड्डीए ) महत्या ऋद्ध्या (महया जुईए) महत्या द्युत्या (महया वलेणं) महता बलेन (महया समुदपणं) महता समुदयेन ( महया | वरतुडियजमगसमगप्पवाइएणं ) महता - उच्चैस्तरेण वरत्रुटितानि - प्रधानवादित्राणि तेषां जमगसमगं-समकालं प्रवादनं यत्र एवंविधेन ( संखपणव पडह भेरीझल्लरी खरमुहिहुडुक दुदुहि निग्घोसनाइयरवेणं ) शङ्खः प्रतीतः पणव:- मृत्पटह्ः पटह:- काष्ठपुटहः भेरी-ढक्का झल्लरी:- प्रतीता खरमुखी - काहला हुडक्कः- त्रिवलितुल्यवाद्यविशेषः दुन्दुभिः - देववाद्यं तेषां निर्घोषः तथा नादितः प्रतिशब्दः तद्रूपेण रवेण शब्देन युक्तं, एवंरूपया ऋद्ध्या व्रताय व्रजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्य परिकलितो ललितच्छत्रचामर विराजितो नन्दिवर्धननृपोऽनुगच्छति । पूर्वोक्ताडम्बरेण युक्तो भगवान् (कुंडपुरं नगरं मज्झमज्झेणं) क्षत्रियकुण्डनगरस्य मध्यभागेन (निग्गच्छइ) निर्गच्छति ( निग्गच्छित्ता ) निर्गत्य (जेमेव नायसंडवणे उज्जाणे ) यत्रैव ज्ञातखण्डवनं इति नामकं उद्यानं अस्ति (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वरपादपः-श्रेष्ठवृक्षः ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ॥ (११५) ॥ For Private & Personal Use Only दीक्षायै गमनं सू. ११५ १५ २० २५ ॥ ९५ ॥ २८ w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy