________________
कल्प. सुबो व्या० ४
॥ ७२ ॥
Jain Education
अथ किं कुर्वे च वा गच्छामि वदामि कस्य वा पुरतः । दुर्दैवेन च दग्धा, मुग्धा जग्धाऽधमेन पुनः ॥ ८ ॥ किं राज्येनाप्यमुना, किं वा कृत्रिमसुखैर्विषयजन्यैः । किं वा दुकूलशय्याशयनोद्भवशर्महर्म्येण ? ॥ ९ ॥ गजषभादिस्वमैः सूचितमुचितं शुचिं त्रिजगदम् । त्रिभुवनजनासपत्नं विना जनानन्दि सुतरत्नम् ॥ १० ॥ युग्मम् ॥ धिक् संसारमसारं, घिग् दुःखव्याप्तविषयमुखले शान् । मधुलिप्तखङ्गधारालेहनतुलितानहो लुलितान् ॥ ११ ॥ यद्वा मयका किञ्चित्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥ १२ ॥ सुपक्खिमाणुसणं, बाले जोऽवि हु विओअए पावो । सो अणवञ्चो जायइ, अह जायइ तो विवज्जिज्जा ॥ १३॥ तत् पटुका मया किं, त्यक्ता वा त्याजिता अधमबुद्ध्या ? । लघुवत्सानां मात्रा, समं वियोगः कृतः किं वा ? ॥१४॥ तेषां दुग्धपायोऽकारि, मया कारितोऽथवा लोके । किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः १ ॥ १५ ॥ किं वा सांण्डशिशून्यपि खगनीडानि प्रपातितानि भुवि । पिकशुककुर्कुटकादेर्मालवियोगोऽथवा विहितः ॥ १६ ॥ किं वा बालकहत्यांऽकारि सपत्नीसुताद्युपरि दुष्टम् । चिन्तितमचिन्त्यमपि वा कृतानि किं कार्मणादीनि ? ॥ १७ ॥ किं वा गर्भस्तम्भनशातनपातनमुखं मया चक्रे । तन्मन्त्रभेषजान्यपि किं वा मयका प्रयुक्तानि ? ॥ १८ ॥ अथवा भवान्तरे किं मया कृतं शीलखण्डनं बहुशः । यदिदं दुःखं तस्माद्विना न सम्भवति
१ पशुपक्षिमानुषाणां बालान् योऽपि च वियोजयति पापः । सोऽनपत्यो जायते अथ जायते ततो विपद्येत ॥ १३॥
For Private & Personal Use Only
त्रिशला
विलापः
२०
२५
॥ ७२ ॥
www.jainelibrary.org