SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ३ ॥ ६२ ॥ Jain Education बलिकर्म-पूजा यैस्ते, पुनः किंवि० १ ( कपकोउयमंगलपायच्छित्ता) कौतुकानि - तिलकादीनि मङ्गलानि-दधिदूर्वाक्षतानि तान्येव प्रायश्चित्तानि - दुःखमादिविध्वंसकानि कृतानि यैस्ते तथा पुनः किंवि० ? ( सुद्धप्पवेसाईं मंगलाई वत्थाई पवराई परिहिया ) शुद्धानि - उज्ज्वलानि प्रवेश्यानि - राजसभाप्रवेशयोग्यानि उत्सवा दिमङ्गलसूचकानि एवंविधानि प्रवरवस्त्राणि परिहितानि यैस्ते तथा पुनः किंवि० ? ( अप्पमहग्घाभरणालंकिय सरीरा ) अल्पानि - स्तोकानि अथ च महार्घाणि - बहुमूल्यानि एवंविधानि यानि आभरणानि तैः अलकृतं शरीरं येषां ते तथा पुनः किंवि० ? (सिद्धत्थय हरियालियाकयमंगलमुद्धाणा) सिद्धार्थाः श्वेतसर्षपाः हरितालिका- दूर्वा तद् उभयं कृतं मङ्गलनिमित्तं मूर्धनि यैस्ते तथा, एवंविधाः सन्तः (सएहिं सएहिं गेहेहिंतो निग्गच्छंति ) स्वकेभ्यः स्वकेभ्यो गेहेभ्यः निर्गच्छन्ति ( निग्गच्छित्ता ) निर्गत्य च ( खत्तिय कुंडग्गामं नयरं मज्झंमज्झेणं) क्षत्रियकुंडस्य ग्रामस्य नगरस्य मध्यंमध्येन ( जेणेव सिद्धत्थस्स रनो ) यत्रैव सिद्धार्थस्य राज्ञः ( भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारं, भवनवरेषु भवनश्रेष्ठेषु अवतंसक इव-मुकुट इव भवनवरावतंसकस्तस्य प्रतिद्वारं - मूलद्वारं ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति (उवागच्छित्ता ) उपागत्य च ( भवणवरवाडेंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारे (एगओ मिलंति) एकत्र मिलन्ति-सम्म तीभवन्ति, सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्तीति तत्त्वं ॥ यतः - सर्वेऽपि यत्र नेतारः, सर्वे | पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद्वृन्दमवसीदति ॥ १ ॥ दृष्टान्तश्च अत्र पञ्चशतसुभटानां, तथथा - For Private & Personal Use Only स्वप्न पाठ कागमः सू. ६७ १५ २० २५ ॥ ६२ ॥ २८ ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy