________________
7ASA
कल्प.सुबो
लाविपुला-विस्तीर्णा तथा उज्ज्वलपिंगलेन मधुघृतेन परिषिच्यमाना-उज्ज्वलेन घृतेन पिङ्गलेन च मधुना अनिवतः सिच्यमाना अत एव (निमत्ति) निधूमा (धगधगाइअत्ति) धगधगितिकुर्वत्यो (जलंतजालुज्जलाभिरामं) .४६
ज्वलन्त्यो-दीप्यमाना या ज्वालास्ताभिः उज्ज्वलं अत एव अभिरामं, पुनः किंवि०-(तरतमजोगजुत्तेहिं जिनजननी॥५१॥
तरतमयोगयुक्तैः (जालपयरेहिं ) ज्वालाप्रकरैः (अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य दृश्यता सर्वा अपि ज्वाला अन्योऽन्यं प्रविष्टा इव सन्तीति भावः, (पिच्छइ) प्रेक्षते इति क्रियापदं, पुनः किंवि०१-16 (जालुज्जलणगत्ति) ज्वालानां ऊर्ध्व ज्वलनं ज्वालोज्ज्वलनं, स्वार्थिककप्रत्यये च ज्वालोज्ज्वलनकं, अत्र तृतीयैकवचनलोपः तेन ज्वालोज्ज्वलनकेन (अंबरं व कत्थइ पयंत) कचित्प्रदेशे अम्बरं-आकाशं पचन्तं इव, अभ्रंलिहत्वेन आकाशपचनसमर्थ इवेत्यर्थः, पुनः किंवि०१-(अइवेगचंचलं) अतिवेगेन चञ्चलं (सिहिं) शिखिनं-अग्निं, इदं विशेष्यम् १४॥ (४६)॥ | (इमे एयारिसे) इमान् एतादृशान् (सुभे) शुभान-कल्याणहेतून् (सोमे) उमया-कीर्त्या सहितान् (पियदंसणे) प्रियदर्शनान-दर्शनमात्रेण प्रीतिकरान (सुरूवे) सुरूपान् (सुविणे) खमान् (दह्रण सयण-18 मज्झे पडिवुद्धा) शयनमध्ये-निद्रामध्ये दृष्ट्रा प्रतिबुद्धा-जागरिता सती (अरविंदलोयणा) अरविन्दलोचना त्रिशला (हरिसपुलइअंगी) हर्षपुलकिताङ्गी-प्रमोदभररोमाञ्चितगात्री ॥ अत्र प्रसङ्गेन एतेषां स्वप्नानां गर्भकाले सकलजिनराजजननीविलोकनीयत्वं दर्शयन्नाह-(एए चउदस सुविणे) एतान् चतुर्दश स्वमान्
Jain Education
WTanal
For Private & Personel Use Only
Cow.jainelibrary.org,