SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कल्प. सु. ८ सर्वत्र विशेषणपरनिपाते हेतुर्ज्ञेयः पुनः किंविशिष्टां श्रीदेवतां ? -( कमलामलविसालरमणिज्जलोअणि ) कमलवत् अमले- निर्मले विशाले - विस्तीर्णे, रमणीये-मनोहरे च लोचने, यस्याः सा तथा तां पुनः किंवि० :(कमलपज्जलंत करगहि अत्ति ) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्तौ - देदीप्यमानौ यौ करौ - हस्तौ ताभ्यां गृहीते ये कमले ताभ्यां (मुक्कतोयं) मुक्तं-क्षरत् तोयं - मकरन्दरूपं जलं यस्याः सा तथा तां, अयमर्थ:-श्रीदेव्या तावद् द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्माच्च मकरन्दबिन्दवः श्रवन्तीति, | पुनः किंवि० ? - ( लीलावायत्ति ) लीलया न तु प्रखेदापनोदाय प्रखेदस्य दिव्यशरीरेष्वभावात्, लीलया वायन्ति वातोदीरणार्थं ( कयपक्खएणं ) कृन्तः - अवधूतो यः पक्षकः - तालवृन्तं तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्यं, पुनः किंवि० १ ( सुविसदन्ति ) सुविशदः - सुविविक्तो न पुनर्जटाजूटवत् परस्परसंलग्न ः (कसिणत्ति ) कृष्णः -श्यामवर्ण: ( घणत्ति ) घनः - अविरलो न तु मध्ये मध्ये रिक्तः ( सण्हत्ति ) सूक्ष्मो न तु शूकररोमवत्स्थूलः (लंबतत्ति ) लम्बमानः (केसहत्थं ) केश हस्तो - वेणिर्यस्याः सा तथा तां, पुनः किंवि० ? - ( पउमद्दहकमलवासिणिं ) पद्मद्रहस्य यत्कमलं पूर्वोक्तस्वरूपं तत्र निवसन्ती (सिरिं) श्रियं - श्रीदेवतां, इदं विशेष्यं, पुनः किंवि० १- ( भगवई ) भगवतीं - ऐश्वर्यादियुतां ( पिच्छइ ) प्रेक्षते इदं क्रियापदं पुनः किंवि० ? -( हिमवंत सेलसिहरे ) हिमवन्नामा पर्वतस्तस्य शिखरे Jain Education International For Private & Personal Use Only ४ श्रीदेव्यभिषेकः सू. ३६ १० १३ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy