________________
श्रीकालि
गर्दभिल्ल
काचार्यकथायां
युद्धं
॥८६॥
सिन्धुं कटकं सुराष्ट्रा-देशे समागत्य सुखेन तस्थौ । सर्वेऽपि भूपाः सुगुरोश्च सेवां, कुर्वन्ति बद्धाञ्जलयो विनीताः ॥ ३०॥ वर्षावसाने गुरुणा बभाषे, अवन्तिदेशं चलतेति यूयम् । नृपं निगृह्णीत च गईभिल्लं, गृह्णीत राज्यं प्रविभज्य शीघ्रम् ॥ ३१ ॥ अभाषि तैः शम्बलमस्ति नो नः, किं कुर्महे ? कालिकसूरिरेवम् । ज्ञात्वा च तेभ्यः शुभचूर्णयोगैः, कृत्वेटिकाः स्वर्णमयीर्ददौ सः॥ ३२॥ ढक्कानिनादेन कृतप्रयाणा, नृपाः प्रचेलुगुरुलाटदेशम् । तद्देशनाथौ बलमित्रभानु-मित्रौ गृहीत्वाऽगुरवन्तिसीमाम् ॥३३॥ श्रुत्वाऽऽगतांस्तानभितः स्वदेश-सीमां समागच्छदवन्तिनाथः। परस्परं कुन्तधनुर्लताभि-युद्धं द्वयोः सैनिकयोर्बभूव । ॥ ३४ ॥ स्वसैन्यमालोक्य हतप्रतापं, नंष्ट्वा गतो भूपतिगईभिल्लः । पुरीं विशालां स यदा है प्रविष्ट-स्तदैव साऽवेष्टि बलै रिपूणाम् ॥३५॥ अथान्यदा साहिभटैरपृच्छि, युद्धं प्रभो! नैव भवेत्किमद्य ? । अद्याष्टमी सूरिभिरुक्तमेवं, स गईभी साधयतीह विद्याम् ॥ ३६॥ विलो-हूँ कयद्भिः सुभटैरजस्र-मट्टालवे (ये) कापि गता खरी सा। दृष्टा तदा सा कथिता गुरूणां, तैरे
॥ ८६
en Education Inter
For Private
Personal Use Only