________________
प्रकृतिः
इत्यर्थः । तयोदयस्थित्यादिकं उदयस्थितिवन्धादिक, इतरतुट्यं उपशमश्रेण्यारोहनाब्युदयस्थित्यादितुझ्यं, उपशमश्रे
हाणिमारोहतो यत्र यत्र यद्यत् उदयस्थित्यादिकं व्यवछिन्नं प्रतिपातेऽपि तत्र तत्र तत्तत् जदयस्थित्यादिकं प्रवर्तत इत्यर्थः। ॥१३॥ तथैकस्मिन् नवे छौ वारौ चारित्रमोहमुपशमयति उपशमश्रेणिं प्रतिपद्यते इत्यर्थः । न तु तृतीयमपि वारं ॥६॥
एवं पुरुषवेदोदयेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुतः, संप्रति स्त्रीवेदेन प्रतिपन्नस्योच्यतेउदयं वजी श्छ। विं समय अवेयगा सत्त । तह वरिसवरो वरिसवरिं विं समगं कमारो॥६॥
जदयं ति-इह स्त्री उपशमश्रेणिं प्रतिपन्ना सती प्रथमतो नपुंसकवेदमुपशमयति, पश्चात् स्त्रीवेदं । तं च तावपशमयति यावत्स्वोदयस्य विचरमसमयः । तस्मिंश्च समये एकां चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेष सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितं । ततश्चरमसमये व्यतिक्रान्ते अवेदका सती पुरुषवेदहास्यादिकाः सप्त प्रकृतीयुगपठ|पशमयितुमारलते । शेषं पुरुषवेदेनेव श्रेणिं प्रतिपन्नस्य वेदितव्यं । संप्रति नपुंसकवेदेनोपशमश्रेणिं प्रतिपन्नस्य विधिमाह-'तहेत्यादि' वर्षवरो नपुंसक उपशमश्रेणिं प्रतिपन्नः सन् । तथेति एकामुदयस्थिति मुक्त्वेत्यर्थः । समकं युगपत् नपुंसकवेदस्त्रीवेदावुपशमयति । 'कमारछे' इति क्रमेणारब्धे सति । तत्रायं संप्रदायः-स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदरं यावन्नपुंसकवेनापि श्रेणिं प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति । तत ऊर्ध्वं पुनर्नपुंसकवेदं स्त्रीवेदं च युगपपशमयितुं लग्नः । स च तावजतो यावन्नपुंसकवेदाचाया विचरमसमयः । तस्मिंश्च समये स्त्रीवेद उपशान्तः । नपुंसकवेदस्य च एका समयमात्रोदयस्थितिवर्तते ।
Jain Education International
For Private & Personal use only
U
brary.org