________________
कर्म
॥ १६० ॥
तान्यपि न फलवन्ति जवन्ति, किंतु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरपालितानि । तत्राद्येषु चतुर्षु सम्यग्ज्ञानाजाव, उत्तरेषु च त्रिषु सम्यग्ग्रहणसम्यकूपालनाभाव:, इति आद्येषु सप्तसु नङ्गेषु वर्तमानो नियमादविरतः । चरमे तु जङ्गे वर्तमानो देशविरतो नवति, देशतोऽवद्यस्य पापस्य विरतेर्विरतिसनावात् । स चैकत्रतादिः एकत्रतग्राही, त्रितग्राही, एवं ताव - ज्यो यावच्चरमोऽनुमतिमात्रोऽनुमतिमात्रसेवी । शेषं तु पापं सकलमपि तेन प्रत्याख्यातं । अनुमतिरपि त्रिधा - प्रतिसे वनानुमतिः, प्रतिश्रवणानुमतिः, संवासानुमतिश्च । तत्र यः स्वयं परैर्वा कृतं पापं श्लाघते सावद्यारंजोपपन्नं वाऽशनाद्युपहुंक्ते, तदा तस्य प्रतिसेवनानुमतिः । यदा तु पुत्रादिभिः कृतं पापं शृणोति श्रुत्वा चानुमनुते, न च प्रतिषेधति, तदा प्रतिश्रवणानुमतिः । यदा पुनः सावद्यारंभप्रवृत्तेषु पुत्रादिषु केवलं ममत्वमात्रयुक्तो जवति, नान्यत् किंचित्प्रतिशृणोति श्लाघते वा, तदा संवासानुमतिः । तत्र यः संवासानुमतिमात्रमेव सेवते स चरमो देशविरतः, स चान्यसर्वश्रावकाणां गुणोत्तमः । यः पुनः संवासानुमतेरपि विरतः, स यतिरित्युच्यते । कथं पुनर्देश विर तिसर्वविरत्योर्लान ? उच्यते 'दोहेत्यादि' ६योरपि देशविर तिसर्वविरत्योः प्रतिपत्तौ द्वे करणे यथाप्रवृत्तकरणापूर्वकरणाख्ये जवतः, न तु तृतीयम निवृत्तिकरणं । कथमिति चेदुच्यते - इह करणकालात्प्रागप्यन्तर्मुहूर्त यावत् प्रतिसमयमनन्तगुणवृद्धया विशुद्ध्या प्रवर्धमानोऽशुजानां कर्मणामनुजागं दिस्थानकं करोतीत्यादि तदेव वक्तव्यं यावद्यथाप्रवृत्तं करणं, तदपि तथैव वक्तव्यं । ततोऽपूर्वकरणं, तदपि तथैव । नवरमिह गुणश्रेणिर्न वक्तव्या । अपूर्वकरणायायां च परिसमाप्तायामनन्तरसमये नियमाद्देशविरतिं सर्वविरतिं वा प्रतिपद्यते । ततोऽनिवृत्तिकरणं तृतीयमिति नावाप्यते । इह यद्यविरतः सन् यथोक्ते करणे करोति ।
Jain Educaticaleational
For Private & Personal Use Only
प्रकृतिः
॥ १६० ॥
Chinelibrary.org