SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 तव्यं । एतच्च तत्र सर्वथा नोक्तं, किं त्विदैव । यतस्तत्रानुज्ञागबन्धमाश्रित्य शुभाशुभप्ररूपणा कृता । न च सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धः संभवति, तत एतद्दर्जा एव तत्राशुजप्रकृतयो निर्दिष्टाः । उदीरणा त्वेतयोरपि भवति । तत इह विशेषेणैतयोरुपादानं । तथाऽन्तरायं पञ्चप्रकारमुत्कृष्टामनुना गोदीरणामधिकृत्य दिस्थानकें, एकस्थानके च घातिसंज्ञामधिकृत्य देशघाति वेदितव्यं । बन्धं प्रतीत्य पुनश्चतुः प्रकारेपि रसे । तद्यथा - चतुःस्थानके त्रिस्थानके दिस्थानके एकस्थानके च । अचकुर्दर्शनं घातिसंज्ञामधिकृत्य देशघाति ॥ ४४ ॥ गणेसु चउसु श्रपुमं दुहाणे कक्करुं च गुरुकं च । श्रणुपुर्वी तीसं नरतिरिए गंतजोग्गा य ॥ ४५ ॥ गणेसु ति नपुंसक वेदो बन्धं प्रतीत्य त्रिप्रकारे रसे । तद्यथा - चतुःस्थानके त्रिस्थान के विस्थानके च । अत्र तूत्कृ|ष्टामनुजागोदीरणामधिकृत्य चतुःस्थानके । अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके एकस्थानके च । ननु बन्धाजावे कथमुदीरणायामेकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? उच्यते - क्षपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि | रससंजवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके विस्थानके च । इह त्वनुनागोदीरणामधिकृत्य दिस्थानके । तथा चतस्र श्रानुपूर्व्या याश्च नरतिरश्चामुदयं प्रत्येकान्तयोग्यास्त्रिंशत्प्रकृतयः, तद्यथा - मनुष्यायुस्तिर्यगायु स्तिर्यग्गतिर्मनुष्यगतिरेकेन्द्रियजातिर्धीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजातिश्चौदा रिकसप्तकमाद्यन्तवसंस्थानचतुष्टयं संहननषङ्कमातपं स्थावरं सूक्ष्ममपर्याप्तं साधारणं चेति ता अपि बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके दिस्थानके च । इह त्वनुनागोदी रणामुत्कृष्टामनुत्कृष्टां वाऽधिकृत्य विस्थानके रसे वेदितव्याः ॥ ४५ ॥ For Private & Personal Use Only elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy