________________
कर्म
॥ १४० ॥
Jain Education
वासातपोद्योताशुनविहायोगतिनी चैर्गोत्ररूपाणां षकशी तिसंख्यानां बन्धाव लिकायामतीतायामुदयावलिकात उपरितनी सर्वापि स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या, उदये सत्येवोदीरणाया जावात् । बन्धावलिकारहिता च सर्वा स्थितिर्यत्स्थितिः । इहावलिकाधिकरूपोऽवान्वेदः तमुजयवन्तस्तू दीरणास्वामिनः । येषां तु कर्मणां मनुजगतिसातवेदनीय स्थिरा दिषट्कहास्या दिषट्कवेदत्रयशुभ विहायोग तिप्रथम संस्थानपञ्चकप्रथम संहनन पञ्चकोञ्चैर्गोत्ररूपाणा| मेकोनत्रिंशत्संख्याकानामुदये सति संक्रमेणोत्कृष्टा स्थितिः, तेषामावलिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता च सर्वा स्थितिर्यत्स्थितिः । इहावलिका त्रिकरूपोऽयावेदः, तदयवन्तस्तूदीरणास्वामिनः । एवमुत्तरत्रापि यावान् यावानुदीरणाया अयोग्यः कालस्तावान् तावानावेदः, तदुदयवन्तस्तूदीरणास्वामिनो वेदितव्याः । तथा सप्ततिसागरोपम कोटी कोटी प्रमाणा मिथ्यात्वस्य स्थितिर्मिथ्यादृष्टिना सता बघा, ततोऽन्तर्मुहूर्त कालं यावन्मिथ्यात्वमनुभूय सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहूर्तानां मिथ्यात्वस्थितिं सकलामपि संक्रमयति । संक्रमालिकायां चातीतायामुदीरणा योग्या, तत्र संक्रमावलिका तिक्रमेऽपि सान्तर्मुहूर्तोनैव । ततः सम्यक्त्वमनुजवतः सम्यक्त्वस्यान्तर्मुहूर्तोना सप्ततिसागरोपमकोटी कोटी प्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । ततः कश्चित् सम्यक्त्वेऽप्यन्तर्मुहूर्त स्थित्वा सम्यग्मिथ्यात्वं प्रतिपद्यते । ततः सम्यग्मिथ्यात्वमनुजवतः सम्यग्मिथ्यात्वस्यान्तर्मुहूर्त धिकोना सप्ततिसाग रोपमकोटी कोटी प्रमाणोत्कृष्टा स्थितिरुदी - | रणायोग्या भवति । तथाहारकसप्तकमप्रमत्तेन सता तद्योग्योत्कृष्ट संक्लेशेनोत्कृष्ट स्थितिकं वरूं तत्कालोत्कृष्ट स्थितिकमूल
For Private & Personal Use Only
प्रकृतिः
॥ १४० ॥
elibrary.org