SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ तदेवं कृता नेदप्ररूपणा । संप्रति साद्यनादिप्ररूपणा कर्तव्या । सा च विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया | च । तत्र मूलप्रकृतिविषयसाद्यनादिप्ररूपणार्थमाहमूलटिई अजहन्ना मोहस्स चनविदा तिहा सेसा।वेयणियाऊण उहा सेसविगप्पा उ सवासिं ॥३॥ ___ मूलवित्ति-मूल स्थितिशब्दान्यां प्राकृतत्वात् प्रत्येक षष्ठीविनक्तिलोपः। ततोऽयमर्थः-मूलप्रकृतीनां मध्ये मोहस्य मोहनीयस्य स्थितेरुदीरणाऽजघन्या चतुर्विधा चतुःप्रकारा। तद्यथा-सादिरनादिर्बुवाऽध्रुवा च । तथा मोहनीयस्य जघन्या स्थित्युदीरणा सूदमसंपरायस्य दपकस्य स्वगुणस्थानकसमयाधिकावलिकाशेषे वर्तमानस्य नवति । ततोऽन्यत्र सर्वत्राप्यजघन्या, सा चोपशान्तमोहगुणस्थानके न जवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाऽनव्यानां, अध्रुवा नव्यानां । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाजघन्या त्रिधा त्रिप्रकारा, तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदी|रणा दीपकषायस्य स्वगुणस्थानसमयाधिकावखिकाशेषे वर्तमानस्य नवति, शेषकालं त्वजघन्या। सा चानादिः, सदैव नावात्। ध्रुवाववे पूर्ववत् । नामगोत्रयोस्तु जघन्या स्थित्युदीरणा सयोगिकेवखिचरमसमये । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा चानादिः। ध्रुवाध्रुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा विधा, तद्यथा-सादिरध्रुवा च । तथाहि-वेदनीयस्य जघन्या स्थित्युदीरणा एकेन्द्रियस्य सर्वस्तोकस्थितिसत्कर्मणो खन्यते । ततः तस्यैव समयान्तरे प्रवर्धमानसत्कर्मणोऽजघन्या । ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवा च । श्रायुषः पर्य-18 २७0 CROCESCENCCC T RYational For Privale & Personal use only K inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy