________________
प्रकृतिः
॥३
॥
फासणेति-अतीते काले एकस्य जीवस्योत्कृष्टे के सामयिके इत्यर्थः । अनुजागबम्धस्थाने स्पर्शनाकाखः स्तोकः। अतीते काले परित्रमता जन्तुना घिसामयिकान्यनुनागबन्धस्थानानि स्तोकमेव कालं स्पृष्टानीत्यर्थः । जघन्ये पुनरनुनागबन्धस्थाने प्राथमिकेषु चतुःसामयिकेष्वित्यर्थः । अतीते काले स्पर्शनाकालोऽसंख्येयगुणः । 'कंमगे तत्ति चेव'। कंमकं उपरितनानि चतुःसामयिकानि स्थानानि तेषु तावन्मात्रः स्पर्शनाकालो यावन्मात्र आयेषु चतुःसामयिकेषु । ततो यवमध्येषु स्थानेषु अष्टसामयिकेष्वित्यर्थः । स्पर्शनाकालोऽसंख्येयगुणः। ततः कंमकस्योपरिवर्तिचतुःसामयिकस्थानसंघातरूपस्योपरितनेषु स्थानेषु त्रिसामयिकेष्वित्यर्थः। स्पर्शनाकालोऽसंख्येयगुणः। ततो यवमध्यस्याधस्तात् पञ्चषट्सप्तसामयिकेष्वसंख्येयगुणः । स्वस्थाने तु परस्परं तुल्यः। ततः क्रमशः क्रमेण यवमध्याउपरितनेषु कंकाच्चतुःसामयिकस्थानसंघातरूपादधस्तनेषु पञ्चषट्सप्तसामयिकेषु स्थानेषु तावन्मात्र एव स्पर्शनाकालो यावन्मात्रः पाश्चात्येषु पञ्चषट्सप्तसामयिकेषु । ततो यवमध्यस्योपरितनेषु दिसामयिकपर्यन्तेषु सर्वेष्वपि स्थानेषु यः स्पर्शनाकाखः स विशेषाधिकः । ततोऽपि कंमकस्य यवमध्यस्योपरिवर्तिचतुःसामयिकस्थानसंघातरूपस्याधस्तात् सर्वेष्वपि स्थानेषु जघन्यचतुःसामयिकपर्यन्तेषु स्पर्शनाकालः समुदितो विशेषाधिकः । ततोऽपि सर्वेष्वपि स्थानेषु स्पर्शनाकालो विशेषाधिकः। कृता स्पर्शनाप्ररूपणा | संप्रत्यल्पबहुत्वप्ररूपणामाह-'जीवप्पा बहु' इत्यादि । यथा स्पर्शनाकालस्याहपबहुत्वमुक्तं, एवं जीवानामपि अध्यवसानेषु अनुनागबन्धस्थाननिमित्तजूतेषु वर्तमानानामहपबहुत्वं जानीयात् । तद्यथा-उत्कृष्टेष्वध्यवसानेषु दिसामयिकानुनागनिबन्धनभूतेषु वर्तमाना जीवाः स्तोकाः। ततो जघन्येषु चतुःसामयिकानुनागबन्धनिबन्धनजूतेष्वसंख्येयगुणाः । एतावन्त
KORRASTAXASSAS*
॥३०॥
Jain Education
anal
For Privale & Personal use only